Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1566

1875 Mantra
Devata- अग्निः Rishi- गोपवन आत्रेयः Chhand- आनुष्टुभः प्रगाथः (गायत्री) Swara- षड्जः
Mantra with Swara
प꣡न्या꣢ꣳसं जा꣣त꣡वे꣢दसं꣣ यो꣢ दे꣣व꣢ता꣣त्यु꣡द्य꣢ता । ह꣣व्या꣡न्यै꣢꣯रयद्दि꣣वि꣢ ॥१५६६॥

प꣡न्या꣢꣯ꣳसम् । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । यः꣢ । दे꣣व꣡ता꣢ति । उ꣡द्य꣢꣯ता । उत् । य꣣ता । हव्या꣡नि꣢ । ऐ꣡र꣢꣯यत् । दि꣣वि꣢ ॥१५६६॥

Mantra without Swara
पन्याꣳसं जातवेदसं यो देवतात्युद्यता । हव्यान्यैरयद्दिवि ॥

पन्याꣳसम् । जातवेदसम् । जात । वेदसम् । यः । देवताति । उद्यता । उत् । यता । हव्यानि । ऐरयत् । दिवि ॥१५६६॥

Samveda - Mantra Number : 1566
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः) यज्ञाग्निः (देवताति) देवतातौ यज्ञे। [देवताता इति यज्ञनामसु पठितम्। निघं० ३।१७।] (उद्यता) उद्यतानि (हव्यानि) हवींषि (दिवि) अन्तरिक्षे (ऐरयत्) प्रेरयति, तम् (पन्यांसम्) पनीयांसम्, अतिशयेन आदानप्रदानयोर्व्यवहर्तारम्, हव्यं दत्त्वा विनिमयेनाकाशाद् वृष्टिं गृह्णानम् इत्यर्थः। [पण व्यवहारे स्तुतौ च, तृजन्तादीयसुन्, ईकारलोपश्छान्दसः।] (जातवेदसम्) जातप्रकाशम् यज्ञाग्निम्, अहं (स्तुषे) स्तौमि। [अत्र स्तुषे इति पूर्वतोऽनुवृत्तम्] ॥३॥
Essence
वृष्ट्यर्थमग्नौ प्रास्ताहुतिरग्निना विच्छिन्ना तप्तवायुना सहोपरि गच्छति, तत ऊर्ध्वस्थेषु पवनेषु गतिरुत्पद्यते, येन मेघस्थैर्जलवाष्पैर्यदा शीताः पवनाः संघट्टन्ते तदा वृष्टिर्जायते ॥३॥
Subject
अथ यज्ञाग्नेराकाशस्य च पारस्परिकं विनिमयं दर्शयति।