Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1565

1875 Mantra
Devata- अग्निः Rishi- गोपवन आत्रेयः Chhand- आनुष्टुभः प्रगाथः (गायत्री) Swara- षड्जः
Mantra with Swara
यं꣡ जना꣢꣯सो ह꣣वि꣡ष्म꣢न्तो मि꣣त्रं꣢꣫ न स꣣र्पि꣡रा꣢सुतिम् । प्र꣣श꣡ꣳस꣢न्ति꣣ प्र꣡श꣢स्तिभिः ॥१५६५॥

यम् । ज꣡ना꣢꣯सः । ह꣣वि꣡ष्म꣢न्तः । मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । न । स꣣र्पि꣡रा꣢सुतिम् । स꣣र्पिः꣢ । आ꣣सुतिम् । प्रश꣡ꣳस꣢न्ति । प्र꣣ । श꣡ꣳस꣢꣯न्ति । प्र꣡श꣢꣯स्तिभिः । प्र । श꣣स्तिभिः ॥१५६५॥

Mantra without Swara
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् । प्रशꣳसन्ति प्रशस्तिभिः ॥

यम् । जनासः । हविष्मन्तः । मित्रम् । मि । त्रम् । न । सर्पिरासुतिम् । सर्पिः । आसुतिम् । प्रशꣳसन्ति । प्र । शꣳसन्ति । प्रशस्तिभिः । प्र । शस्तिभिः ॥१५६५॥

Samveda - Mantra Number : 1565
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सर्पिरासुतिम्) सर्पिः घृतम् आसूयते हूयते यस्मिन् तम् (यम्) यज्ञाग्निम् (हविष्मन्तः) सुगन्धिमिष्टपुष्ट्यारोग्यवर्धकैः कस्तूरीकेसरघृतदुग्धशर्करामधुगुडूच्यादिभिः हव्यैर्युक्ताः (जनासः) याज्ञिकाः मनुष्याः (मित्रं न) सखायमिव (प्रशस्तिभिः) प्रशंसावचनैः (प्रशंसन्ति) स्तुवन्ति, तम् अग्निम् अहमपि (स्तुषे) स्तौमि इति पूर्वमन्त्रादाकृष्यते ॥२॥
Essence
आध्यात्मिकं जीवनं यापयितुमिच्छुभिर्जनैरग्निहोत्रेण परमात्माग्नौ स्वात्मनो होमस्य प्रेरणा ग्राह्या ॥२॥
Subject
अथ यज्ञाग्नेः प्रशंसामाह।