Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1564

1875 Mantra
Devata- अग्निः Rishi- गोपवन आत्रेयः Chhand- आनुष्टुभः प्रगाथः Swara- गान्धारः
Mantra with Swara
वि꣣शो꣡वि꣢शो वो꣣ अ꣡ति꣢थिं वाज꣣य꣡न्तः꣢ पुरुप्रि꣣य꣢म् । अ꣣ग्निं꣢ वो꣣ दु꣢र्यं꣣ व꣡च꣢ स्तु꣣षे꣢ शू꣣ष꣢स्य꣣ म꣡न्म꣢भिः ॥१५६४॥

वि꣣शो꣡वि꣢शः । वि꣣शः꣢ । वि꣣शः । वः । अ꣡ति꣢꣯थिम् । वा꣣जय꣡न्तः꣢ । पु꣣रु । प्रिय꣢म् । पु꣣रु । प्रिय꣢म् । अ꣣ग्नि꣢म् । वः꣣ । दु꣡र्य꣢꣯म् । दुः । य꣣म् । व꣡चः꣢꣯ । स्तु꣢षे꣢ । शू꣣ष꣡स्य꣢ । म꣡न्म꣢꣯भिः ॥१५६४॥

Mantra without Swara
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥

विशोविशः । विशः । विशः । वः । अतिथिम् । वाजयन्तः । पुरु । प्रियम् । पुरु । प्रियम् । अग्निम् । वः । दुर्यम् । दुः । यम् । वचः । स्तुषे । शूषस्य । मन्मभिः ॥१५६४॥

Samveda - Mantra Number : 1564
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! (वाजयन्तः) बलम् आरोग्यम् आध्यात्मिकमैश्वर्यं च कायमानाः (वः) यूयम् (विशः विशः) मनुष्यस्य मनुष्यस्य (अतिथिम्) अतिथिवत् सत्करणीयम्, (पुरुप्रियम्) बहुप्रीणयितारम् (वः) युष्माकम् (दुर्यम्) गृहवत् शरणभूतम् (अग्निम्) यज्ञाग्निं प्रति, (वचः) वचनं प्रेरयतेति शेषः। अहमपि (शूषस्य) बलिनो ज्ञानवन्तः परमेश्वरस्य (मन्मभिः) वेदमन्त्रैः, यज्ञाग्निम् (स्तुषे) स्तौमि ॥१॥
Essence
गृहागतोऽतिथिरिव यज्ञाग्निराहुतिप्रदानेन सर्वैः सत्करणीयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ८७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र यज्ञाग्निर्वर्ण्यते।