Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1562

1875 Mantra
Devata- अग्निः Rishi- गोतमो राहूगणः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
स꣡ इ꣢धा꣣नो꣡ वसु꣢꣯ष्क꣣वि꣢र꣣ग्नि꣢री꣣डे꣡न्यो꣢ गि꣣रा꣢ । रे꣣व꣢द꣣स्म꣡भ्यं꣢ पुर्वणीक दीदिहि ॥१५६२॥

सः । इ꣣धा꣢नः । व꣡सुः꣢꣯ । क꣣विः꣢ । अ꣣ग्निः꣢ । ई꣣डेन्यः꣢ । गि꣣रा꣢ । रे꣣व꣢त् । अ꣣स्म꣡भ्य꣢म् । पु꣢र्वणीक । पुरु । अनीक । दीदिहि ॥१५६२॥

Mantra without Swara
स इधानो वसुष्कविरग्निरीडेन्यो गिरा । रेवदस्मभ्यं पुर्वणीक दीदिहि ॥

सः । इधानः । वसुः । कविः । अग्निः । ईडेन्यः । गिरा । रेवत् । अस्मभ्यम् । पुर्वणीक । पुरु । अनीक । दीदिहि ॥१५६२॥

Samveda - Mantra Number : 1562
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पुर्वणीक) पुरु बहु अनीकं सैन्यं यस्य तथाविध परमात्मन् आचार्य नृपते वा ! (इधानः) प्रकाशयन्, (वसुः) निवासयिता, (कविः) मेधावी क्रान्तद्रष्टा वा, (गिरा ईडेन्यः) वाचा स्तुत्यः (अग्निः) उन्नायकः (सः) असौ त्वम् (अस्मभ्यम्) उपासकेभ्यः शिष्येभ्यः प्रजाजनेभ्यो वा (रेवत्) श्रीयुक्तं यथा स्यात् तथा। [‘रयेर्मतौ बहुलम्’ वा० ६।१।३७ इति सम्प्रसारणे, पूर्वरूपे गुणे च सिध्यति।] (दीदिहि) प्रज्वल। [दीदयतिः ज्वलतिकर्मा। निघं० १।१६] ॥२॥२
Essence
परमात्माऽऽचार्यश्च सद्गुणानां सैन्येन नृपतिश्च योद्धॄणां सैन्येन वर्धते निजानुपासकान् शिष्यान् प्रजाजनांश्च वर्धयति ॥२॥
Subject
अथ परमात्माऽऽचार्यो नृपतिश्च प्रार्थ्यते।