Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1561

1875 Mantra
Devata- अग्निः Rishi- गोतमो राहूगणः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
अ꣢ग्ने꣣ वा꣡ज꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शा꣢नः सहसो यहो । अ꣣स्मे꣡ दे꣢हि जातवेदो꣣ म꣢हि꣣ श्र꣡वः꣢ ॥१५६१॥

अ꣡ग्ने꣢꣯ । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । ई꣡शा꣢꣯नः । स꣣हसः । यहो । अस्मे꣡इति꣢ । दे꣣हि । जातवेदः । जात । वेदः । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ ॥१५६१॥

Mantra without Swara
अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे देहि जातवेदो महि श्रवः ॥

अग्ने । वाजस्य । गोमतः । ईशानः । सहसः । यहो । अस्मेइति । देहि । जातवेदः । जात । वेदः । महि । श्रवः ॥१५६१॥

Samveda - Mantra Number : 1561
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) छात्रोन्नायक विद्वन् आचार्यवर ! हे (सहसः यहो) आत्मबलस्य पुत्र, अतिशयेन आत्मबलयुक्त इत्यर्थः। हे (जातवेदः) उत्पन्नानां पदार्थानां ज्ञातः ! (गोमतः वाजस्य) वेदवाग्युक्तस्य ऐश्वर्यस्य (ईशानः) अधीश्वरः त्वम् (अस्मे) अस्मभ्यम् (महिश्रवः) महत् शास्त्रज्ञानं तज्जन्यं यशश्च (देहि) प्रयच्छ। [श्रूयते इति श्रवः शास्त्रं यशो वा] ॥१॥२
Essence
आचार्यसकाशाद् विविधानां विद्यानां ज्ञानं प्राप्य शिष्या विद्वांसः कीर्तिमन्तश्च भवेयुः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ९९ क्रमाङ्के परमात्मानं विद्वज्जनं राजानं च सम्बोधिता। अत्राचार्यः प्रार्थ्यते।