Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 156

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣢ व꣣ इ꣡न्द्रा꣢य꣣ मा꣡द꣢न꣣ꣳ ह꣡र्य꣢श्वाय गायत । स꣡खा꣢यः सोम꣣पा꣡व्ने꣢ ॥१५६॥

प्र꣢ । वः꣣ । इ꣡न्द्रा꣢꣯य । मा꣡द꣢꣯नम् । ह꣡र्य꣢꣯श्वाय । ह꣡रि꣢꣯ । अ꣣श्वाय । गायत । स꣡खा꣢꣯यः । स । खा꣣यः । सोमपा꣡व्ने꣢ । सो꣡म । पा꣡व्ने꣢꣯ ॥१५६॥

Mantra without Swara
प्र व इन्द्राय मादनꣳ हर्यश्वाय गायत । सखायः सोमपाव्ने ॥

प्र । वः । इन्द्राय । मादनम् । हर्यश्वाय । हरि । अश्वाय । गायत । सखायः । स । खायः । सोमपाव्ने । सोम । पाव्ने ॥१५६॥

Samveda - Mantra Number : 156
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (सखायः) समानख्यानाः सुहृदः ! (वः) यूयम् (हर्यश्वाय) हरयो हरणशीला वेगवन्तः अश्वाः तुरगाः यद्वा अश्वोपलक्षिताः मार्गव्यापनशीलाः सूर्य-चन्द्र-वायु-पर्जन्य-प्राणादयो यस्य यद्रचिताः इत्यर्थः स हर्यश्वः तस्मै, (सोमपाव्ने) भक्तिरूपसोमरसस्य पात्रे, चन्द्रादिलोकानां रक्षकाय वा। सोमपूर्वात् पा पाने, पा रक्षणे वा धातोः आतो मनिन्क्वनिब्वनिपश्च। अ० ३।२।७४ इति वनिप् प्रत्ययः। (इन्द्राय) परमैश्वर्यवते परमात्मने (मादनम्) मदकरं तृप्तिकरं स्तोत्रम् (प्र गायत) प्रकृष्टतया गानविधिपूर्वकमुच्चारयत ॥ अथ द्वितीयः—नृपतिपरः। हे (सखायः) सखिभूताः प्रजाजनाः ! (वः) यूयम् (हर्यश्वाय) हरयो वेगवन्तः अश्वाः तुरगाः, तदुपलक्षितानि अश्वयान-अग्नियान-पवनयान-विद्युद्यानादीनि यस्य स हर्यश्वस्तस्मै (सोमपाव्ने) राष्ट्रे ब्रह्मक्षत्ररक्षकाय यशोरक्षकाय च। सोमो वै ब्राह्मणः। तां० ब्रा० २३।१६।५। क्षत्रं सोमः। ऐ० ब्रा० २।३८। यशो वै सोमः। श० ४।२।४।९। (इन्द्राय) ऐश्वर्यशालिने शत्रुविदारकाय नृपतये (मादनम्) हर्षकरम् उत्साहप्रदं च उद्बोधनगीतं विजयगीतं वा (प्र गायत) प्रोच्चारयत ॥२॥२ अत्र श्लेषालङ्कारः ॥२॥
Essence
सर्वैः सखिभिर्मिलित्वा परमेश्वरं प्रति स्तुतिगीतानि प्रजाभिश्च संभूय युद्धारम्भेषु विजयाद्युत्सवेषु च नृपतिं प्रत्युद्बोधनगीतानि विजयगीतानि वा सलयं गेयानि ॥२॥
Subject
पुनरिन्द्रं प्रति गानाय प्रजाः प्रेर्यन्ते।
Footnote
१. ऋ० ७।३१।१, साम० ७१६। २. ऋग्भाष्ये (ऋ० ७।३१।१) मन्त्रोऽयं दयानन्दर्षिणा सखिभिर्मित्राय किं कर्त्तव्यमिति विषये व्याख्यातः।