Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1558

1875 Mantra
Devata- अग्निः Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सा꣣ह्वा꣡न्विश्वा꣢꣯ अभि꣣यु꣢जः꣣ क्र꣡तु꣢र्दे꣣वा꣢ना꣣म꣡मृ꣢क्तः । अ꣣ग्नि꣢स्तु꣣वि꣡श्र꣢वस्तमः ॥१५५८॥

साह्वा꣢न् । वि꣡श्वाः꣢꣯ । अ꣣भियु꣡जः꣢ । अ꣣भि । यु꣡जः꣢꣯ । क्र꣡तुः꣢꣯ । दे꣣वा꣡ना꣢म् । अ꣡मृ꣢꣯क्तः । अ । मृ꣣क्तः । अग्निः꣢ । तु꣣वि꣡श्र꣢वस्तमः । तु꣣वि꣢ । श्र꣣वस्तमः ॥१५५८॥

Mantra without Swara
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः । अग्निस्तुविश्रवस्तमः ॥

साह्वान् । विश्वाः । अभियुजः । अभि । युजः । क्रतुः । देवानाम् । अमृक्तः । अ । मृक्तः । अग्निः । तुविश्रवस्तमः । तुवि । श्रवस्तमः ॥१५५८॥

Samveda - Mantra Number : 1558
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विश्वाः अभियुजः) सर्वान् आक्रान्तॄन् कामक्रोधादीन् (साह्वान्) स्वबलेन तिरस्कुर्वाणः। [दाश्वान् साह्वान् मीढ्वांश्च। अ० ६।१।१२ इति क्वस्वन्तो निपातः।] (देवानाम्) दिव्यगुणानाम् (क्रतुः) कर्ता, (अमृक्तः) न केनापि शोधितः, प्रत्युत स्वतः शुद्धः। [न मृक्तः अमृक्तः। मृजू शौचालङ्कारयोः, निष्ठा।] (अग्निः) तेजस्वी परमेश्वरः (तुविश्रवस्तमः) बहुयशस्तमो वर्तते। [तुवि बहु श्रवः कीर्तिर्विद्यतेऽस्य स तुविश्रवाः, अतिशयेन तुविश्रवाः तुविश्रवस्तमः। तुवि बहुनाम। निघं० ३।१। श्रवः श्रवणीयं यशः। निरु० ११।७] ॥३॥२
Essence
अनन्तगुणसमन्वितत्वाज्जगदीश्वरस्य कीर्तिः सर्वातिशायिनी वर्तते ॥३॥
Subject
अथ परमात्मनो गुणान् वर्णयति।