Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1557

1875 Mantra
Devata- अग्निः Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣भि꣡ प्रया꣢꣯ꣳसि꣣ वा꣡ह꣢सा दा꣣श्वा꣡ꣳ अ꣢श्नोति꣣ म꣡र्त्यः꣢ । क्ष꣡यं꣢ पाव꣣क꣡शो꣢चिषः ॥१५५७॥

अ꣣भि꣢ । प्र꣡या꣢꣯ꣳसि । वा꣡ह꣢꣯सा । दा꣣श्वा꣢न् । अ꣣श्नोति । म꣡र्त्यः꣢꣯ । क्ष꣡य꣢꣯म् । पा꣣वक꣡शो꣢चिषः । पा꣣वक꣢ । शो꣣चिषः ॥१५५७॥

Mantra without Swara
अभि प्रयाꣳसि वाहसा दाश्वाꣳ अश्नोति मर्त्यः । क्षयं पावकशोचिषः ॥

अभि । प्रयाꣳसि । वाहसा । दाश्वान् । अश्नोति । मर्त्यः । क्षयम् । पावकशोचिषः । पावक । शोचिषः ॥१५५७॥

Samveda - Mantra Number : 1557
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(दाश्वान्) आत्मसमर्पकः (मर्त्यः) मनुष्यः (वाहसा) अग्निं परमेश्वरं प्रति कृतेन स्तोत्रेण। [वाहः अभिवहनस्तुतिम्। निरु० ४।१६।] (प्रयांसि) आनन्दरसान्। [प्रयः इति उदकनाम। निघं० १।१२।] (अभि अश्नोति) प्राप्नोति। किञ्च (पावकशोचिषः) पावकदीप्तेः तस्य परमेश्वरस्य (क्षयम्) निवासं मोक्षमिति यावत् अभ्यश्नोति लभते ॥२॥२
Essence
दीप्तिमतो जगदीश्वरस्य स्तुत्या स्वयमपि तद्गुणधारणेन मनुष्योऽभ्युदयं निःश्रेयसं च प्राप्तुमर्हति ॥२॥
Subject
अथ परमात्मस्तुत्या किं प्राप्यत इत्याह।