Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1556

1875 Mantra
Devata- अग्निः Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡दा꣢भ्यः पुरए꣣ता꣢ वि꣣शा꣢म꣣ग्नि꣡र्मानु꣢꣯षीणाम् । तू꣢र्णी꣣ र꣢थः꣣ स꣢दा꣣ न꣡वः꣢ ॥१५५६॥

अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । पुरएता꣢ । पु꣣रः । एता꣢ । वि꣣शा꣢म् । अ꣣ग्निः꣢ । मा꣡नु꣢꣯षीणाम् । तू꣡र्णिः꣢꣯ । र꣡थः꣢꣯ । स꣡दा꣣ । न꣡वः꣢꣯ ॥१५५६॥

Mantra without Swara
अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् । तूर्णी रथः सदा नवः ॥

अदाभ्यः । अ । दाभ्यः । पुरएता । पुरः । एता । विशाम् । अग्निः । मानुषीणाम् । तूर्णिः । रथः । सदा । नवः ॥१५५६॥

Samveda - Mantra Number : 1556
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निः) जगन्नायकः सर्वान्तर्यामी परमेश्वरः (अदाभ्यः) केनापि दब्धुं पराजेतुम् अशक्यः, (मानुषीणां विशाम्) मानवीनां प्रजानाम् (पुरएता) अग्रगन्ता च भवति। (रथः) एतेन रचितो मानवदेहरूपो (रथः तूर्णिः) सद्यो गन्ता, (सदा नवः) सदा स्तुत्यश्च वर्तते ॥१॥२
Essence
जगदीश्वरः खलु कीदृशो विलक्षणः शिल्पी यत्तेन रचित आत्माधिष्ठितो मानवदेहरूपो रथश्चेतनः सन् स्वयमेव याति स्वयमेव विरमति स्वयमेव च कर्तव्याकर्तव्यविवेकं कुरुते ॥१॥
Subject
तत्रादौ परमात्मानं वर्णयति।