Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1555

1875 Mantra
Devata- अग्निः Rishi- सुदीतिपुरुमीढौ तयोर्वान्यतरः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
अ꣣ग्नि꣢ꣳ सू꣣नु꣡ꣳ सह꣢꣯सो जा꣣त꣡वे꣢दसं दा꣣ना꣢य꣣ वा꣡र्या꣢णाम् । द्वि꣣ता꣢꣫ यो भूद꣣मृ꣢तो꣣ म꣢र्त्ये꣣ष्वा꣡ होता꣢꣯ म꣣न्द्र꣡त꣢मो वि꣣शि꣢ ॥१५५५॥

अ꣣ग्नि꣢म् । सू꣣नु꣢म् । स꣡ह꣢꣯सः । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । दाना꣡य꣢ । वा꣡र्या꣢꣯णाम् । द्वि꣣ता꣢ । यः । भूत् । अ꣣मृ꣡तः꣢ । अ꣣ । मृ꣡तः꣢꣯ । म꣡र्त्ये꣢꣯षु । आ । हो꣡ता꣢꣯ । म꣣न्द्र꣡त꣢मः । वि꣣शि꣢ ॥१५५५॥

Mantra without Swara
अग्निꣳ सूनुꣳ सहसो जातवेदसं दानाय वार्याणाम् । द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥

अग्निम् । सूनुम् । सहसः । जातवेदसम् । जात । वेदसम् । दानाय । वार्याणाम् । द्विता । यः । भूत् । अमृतः । अ । मृतः । मर्त्येषु । आ । होता । मन्द्रतमः । विशि ॥१५५५॥

Samveda - Mantra Number : 1555
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सहसः सूनुम्) बलस्य प्रेरकम्, (जातवेदसम्) सर्वज्ञं, सर्वव्यापकं, ज्ञानस्य धनस्य च जनकम् (अग्निम्) अग्रनायकं जगदीश्वरम् (वार्याणाम्) वरणीयानां सद्गुणानां सदैश्वर्याणां च (दानाय) दातये, अहं स्तौमीति शेषः, (मर्त्येषु) मरणधर्मसु प्राणिषु मध्ये (अमृतः) अमरः, (विशि) मानुष्यां प्रजायां च (मन्द्रतमः) अतिशयेन आनन्दप्रदः, (होता) जीवनयज्ञनिष्पादकः (यः) अग्निर्जगदीश्वरः (द्विता) द्वयोरपि स्थानयोः इहलोके परस्मिन् मोक्षलोके च (आ भूत्) सहायको भवति ॥२॥
Essence
न केवलमस्मिन् जीवने, प्रत्युत जन्मजन्मान्तरेषु मोक्षलोके चापि यो जगदीश्वरोऽस्माभिः सखित्वं निर्वहति स कुतो न वन्दनीयः स्यात् ॥२॥ अस्मिन् खण्डे परमात्मविषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्बोध्या ॥
Subject
अथ परमेश्वरस्य गुणान् कीर्तयति।