Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1554

1875 Mantra
Devata- अग्निः Rishi- सुदीतिपुरुमीढौ तयोर्वान्यतरः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
अ꣡च्छा꣢ नः शी꣣र꣡शो꣢चिषं꣣ गि꣡रो꣢ यन्तु दर्श꣣त꣢म् । अ꣡च्छा꣢ य꣣ज्ञा꣢सो꣣ न꣡म꣢सा पुरू꣣व꣡सुं꣢ पुरुप्रश꣣स्त꣢मू꣣त꣡ये꣢ ॥१५५४॥

अ꣡च्छ꣢꣯ । नः꣣ । शीर꣡शो꣢चिषम् । शी꣣र꣢ । शो꣣चिषम् । गि꣡रः꣢꣯ । य꣣न्तु । दर्शत꣢म् । अ꣡च्छ꣢꣯ । य꣣ज्ञा꣡सः꣢ । न꣡म꣢꣯सा । पु꣣रूव꣡सु꣢म् । पु꣣रु । व꣡सु꣢꣯म् । पु꣣रुप्रशस्त꣢म् । पु꣣रु । प्रशस्त꣢म् । ऊ꣣त꣡ये꣢ ॥१५५४॥

Mantra without Swara
अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् । अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥

अच्छ । नः । शीरशोचिषम् । शीर । शोचिषम् । गिरः । यन्तु । दर्शतम् । अच्छ । यज्ञासः । नमसा । पुरूवसुम् । पुरु । वसुम् । पुरुप्रशस्तम् । पुरु । प्रशस्तम् । ऊतये ॥१५५४॥

Samveda - Mantra Number : 1554
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(नः) अस्माकम् (गिरः) वाचः (शीरशोचिषम्) अनुशायिदीप्तिम्। [शीरम् अनुशायिनमिति वा आशिनमिति वा। निरु० ४।१४।] (दर्शतम्) दर्शनीयम् अग्निम् अग्रनायकं परमात्मानम् (अच्छ) प्रति (यन्तु) प्रवर्तन्ताम्। अपि च, अस्माकम् (यज्ञासः) उपासनायज्ञाः (ऊतये) रक्षायै (नमसा) नमस्कारेण सह (पुरूवसुम्) बहुधनम् (पुरुप्रशस्तम्) बहुश्लाघ्यं तम् अग्निं परमात्मानम् (अच्छ) प्रति (यन्तु) गच्छन्तु। [संहितायाम् ‘अच्छा’ इत्यत्र ‘निपातस्य च’। अ० ६।३।१३६ इति दीर्घः] ॥१॥
Essence
श्रद्धय़ा नमस्कारपूर्वकं कृतैव परमात्मोपासना सफला भवति, नैवोन्मनस्कतया कृता ॥१॥
Subject
तत्रादौ परमेश्वराय स्वात्मानं समर्पयति।