Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1553

1875 Mantra
Devata- अग्निः Rishi- भर्गः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
अ꣢च्छा꣣ हि꣡ त्वा꣢ सहसः सूनो अङ्गिरः꣣ स्रु꣢च꣣श्च꣡र꣢न्त्यध्व꣣रे꣢ । ऊ꣣र्जो꣡ नपा꣢꣯तं घृ꣣त꣡के꣢शमीमहे꣣ऽग्निं꣢ य꣣ज्ञे꣡षु꣢ पू꣣र्व्य꣢म् ॥१५५३॥

अ꣡च्छ꣢꣯ । हि । त्वा꣣ । सहसः । सूनो । अङ्गिरः । स्रु꣡चः꣢꣯ । च꣡र꣢꣯न्ति । अ꣣ध्वरे꣢ । ऊ꣣र्जः꣢ । न꣡पा꣢꣯तम् । घृ꣣त꣡के꣢शम् । घृ꣣त꣢ । के꣣शम् । ईमहे । अग्नि꣢म् । य꣣ज्ञे꣡षु꣢ । पू꣣र्व्य꣢म् ॥१५५३॥

Mantra without Swara
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे । ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥

अच्छ । हि । त्वा । सहसः । सूनो । अङ्गिरः । स्रुचः । चरन्ति । अध्वरे । ऊर्जः । नपातम् । घृतकेशम् । घृत । केशम् । ईमहे । अग्निम् । यज्ञेषु । पूर्व्यम् ॥१५५३॥

Samveda - Mantra Number : 1553
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सहसः सूनो) बलस्य साहसस्य च प्रेरक, [सुवति प्रेरयतीति सूनुः। षू प्रेरणे, ‘सुवः कित्’ उ० ३।३५ इति नुः प्रत्ययः।] (अङ्गिरः) प्राणप्रिय परमेश ! (अध्वरे) उपासनायज्ञे (त्वा अच्छ) त्वां प्रति (हि) निश्चयेन (स्रुचः) मदीया वाचः। [वाग् वै स्रुक्। श० १।१।४।११।] (चरन्ति) प्रवर्तन्ते। वयम् (यज्ञेषु) अस्माकं जीवनयज्ञेषु (ऊर्जः नपातम्) बलस्य प्राणशक्तेश्च न पातयितारम्, (घृतकेशम्) दीप्तरश्मिम्। [घृतं दीप्तम्, घृ क्षरणदीप्त्योः। केशा रश्मयः। निरु० १२।२५।] (पूर्व्यम्) सनातनम् (अग्निम्) अग्रनेतारं त्वां परमात्मानम् (ईमहे) बलं याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९] ॥२॥
Essence
उपासनाया अयमेव लाभो यदुपासको बलनिधेः परमात्मनः सकाशादपरिमितं बलं प्राप्य लक्ष्यसिद्धौ सफलो जायत इति ॥२॥
Subject
अथ परमात्मानं प्रार्थयते।