Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1552

1875 Mantra
Devata- अग्निः Rishi- भर्गः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
अ꣢ग्न꣣ आ꣡ या꣢ह्य꣣ग्नि꣢भि꣣र्हो꣡ता꣢रं त्वा वृणीमहे । आ꣡ त्वाम꣢꣯नक्तु꣣ प्र꣡य꣢ता ह꣣वि꣡ष्म꣢ती꣣ य꣡जि꣢ष्ठं ब꣣र्हि꣢रा꣣स꣡दे꣢ ॥१५५२॥

अ꣡ग्ने꣢꣯ । आ । या꣣हि । अग्नि꣡भिः꣢ । हो꣡ता꣢꣯रम् । त्वा꣣ । वृणीमहे । आ꣢ । त्वाम् । अ꣣नक्तु । प्र꣡य꣢꣯ता । प्र । य꣣ता । हवि꣡ष्म꣢ती । य꣡जि꣢꣯ष्ठम् । ब꣣र्हिः꣢ । आ꣣स꣡दे꣢ । आ꣣ । स꣡दे꣢꣯ ॥१५५२॥

Mantra without Swara
अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे । आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥

अग्ने । आ । याहि । अग्निभिः । होतारम् । त्वा । वृणीमहे । आ । त्वाम् । अनक्तु । प्रयता । प्र । यता । हविष्मती । यजिष्ठम् । बर्हिः । आसदे । आ । सदे ॥१५५२॥

Samveda - Mantra Number : 1552
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनेतः परमात्मन् ! त्वम् (अग्निभिः) तेजोभिः सह (आयाहि) आगच्छ, (होतारम्) दातारम् (त्वा) त्वाम्, वयम् (वृणीमहे) संभजामहे। (यजिष्ठं त्वाम्) अतिशयेन यष्टारम्, अस्माभिः सह संगमकारिणं त्वाम्, अस्माकम् (हविष्मती) समर्पणयुक्ता (प्रयता) पवित्रा प्रज्ञा (बर्हिः) हृदयासनम् (आसदे) आसत्तुम् (अनक्तु) व्यक्तं करोतु। [अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिः] ॥१॥
Essence
परमेश्वरो हि यदा स्तोतुरन्तरात्मानं प्रबलसंकल्पस्योत्साहस्य वीरताया आशावादस्य चाग्निभिः सहागच्छति तदा स्तोतुर्मार्गात् सर्वे विघ्ना अपयन्ति लक्ष्यप्राप्तिश्च सुनिश्चिता जायते ॥१॥
Subject
तत्रादौ परमात्माग्निमाह्वयति।