Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1551

1875 Mantra
Devata- अग्निः Rishi- उशना काव्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡धा꣣ त्वं꣢꣫ हि न꣣स्क꣢रो꣣ वि꣡श्वा꣢ अ꣣स्म꣡भ्य꣢ꣳ सुक्षि꣣तीः꣢ । वा꣡ज꣢द्रविणसो꣣ गि꣡रः꣢ ॥१५५१॥

अ꣡ध꣢꣯ । त्वम् । हि । नः꣣ । क꣡रः꣢꣯ । वि꣡श्वाः꣢꣯ । अ꣣स्म꣡भ्य꣢म् । सु꣣क्षितीः꣢ । सु꣣ । क्षितीः꣢ । वा꣡ज꣢꣯द्रविणसः । वा꣡ज꣢꣯ । द्र꣣विणसः । गि꣡रः꣢꣯ ॥१५५१॥

Mantra without Swara
अधा त्वं हि नस्करो विश्वा अस्मभ्यꣳ सुक्षितीः । वाजद्रविणसो गिरः ॥

अध । त्वम् । हि । नः । करः । विश्वाः । अस्मभ्यम् । सुक्षितीः । सु । क्षितीः । वाजद्रविणसः । वाज । द्रविणसः । गिरः ॥१५५१॥

Samveda - Mantra Number : 1551
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे अग्ने ! हे विश्वनायक जगदीश ! (अध) अथ (त्वं हि) त्वं किल (नः) अस्माकम् (विश्वाः) गिरः सर्वाः वाचः (अस्मभ्यम्) अस्मदर्थम् (सुक्षितीः) सुनिवासप्रदाः, (वाजद्रविणसः) वाजो बलमेव द्रविणः धनं यासां ताश्च (करः) कुरु [करः इति करोतेर्लेटि मध्यमैकवचने रूपम्] ॥३॥
Essence
श्रद्धया परमात्मोपासनेन तादृशं वाग्बलं प्राप्तुं शक्यते यच्छ्रोतॄणां मनसि प्रभावं जनयेत् ॥३॥
Subject
अथ परमात्मानं प्रार्थयते।