Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1550

1875 Mantra
Devata- अग्निः Rishi- उशना काव्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
दा꣡शे꣢म꣣ क꣢स्य꣣ म꣡न꣢सा य꣣ज्ञ꣡स्य꣢ सहसो यहो । क꣡दु꣢ वोच इ꣣दं꣡ नमः꣢꣯ ॥१५५०॥

दा꣡शे꣢꣯म । क꣡स्य꣢꣯ । म꣡न꣢꣯सा । य꣣ज्ञ꣡स्य꣢ । स꣣हसः । यहो । क꣢त् । उ꣣ । वोचे । इद꣢म् । न꣡मः꣢꣯ ॥१५५०॥

Mantra without Swara
दाशेम कस्य मनसा यज्ञस्य सहसो यहो । कदु वोच इदं नमः ॥

दाशेम । कस्य । मनसा । यज्ञस्य । सहसः । यहो । कत् । उ । वोचे । इदम् । नमः ॥१५५०॥

Samveda - Mantra Number : 1550
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सहसः यहो) बलस्य पुत्र ! अतिशय बलवन् परमेश ! (कस्य यज्ञस्य मनसा) कस्य यज्ञस्य अभिलाषेण, वयम् त्वाम् (दाशेम) आत्मानं समर्पयेम। (कत् उ) कथं खलु, अहम् (इदं नमः) इमं नमस्कारम् (वोचे)२ त्वां प्रति ब्रूयाम् ? ॥२॥
Essence
अनेके सकामयज्ञा निष्कामयज्ञाश्च प्रचलिताः सन्ति। परमहं तु हे जगदीश्वर त्वदुपासनैकप्रयोजनेन यज्ञेनैव तुभ्यमात्मानं समर्पये, न तु कमपि स्वार्थं मनसि निधाय। कथमहं त्वां नमस्कुर्याम् ? केचित् साष्टाङ्गं प्रणमन्ति, केचिद् बद्धाञ्जलयः प्रणमन्ति, केचिन्मूर्तौ शिरो नत्वा प्रणमन्ति। परमहं तु चित्तमेव त्वयि नमयामि, न शरीराङ्गानि ॥२॥
Subject
अथ पुनरपि प्रश्नं कुरुते।