Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 155

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
पा꣢न्त꣣मा꣢ वो꣣ अ꣡न्ध꣢स꣣ इ꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । वि꣣श्वासा꣡ह꣢ꣳ श꣣त꣡क्र꣢तुं꣣ म꣡ꣳहि꣢ष्ठं चर्षणी꣣ना꣢म् ॥१५५॥

पा꣡न्त꣢꣯म् । आ । वः꣣ । अ꣡न्ध꣢꣯सः । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । विश्वासा꣡ह꣢म् । वि꣣श्व । सा꣡ह꣢꣯म् । श꣣त꣡क्र꣢तुम् । श꣣त꣢ । क्र꣣तुम् । मँ꣡हि꣢꣯ष्ठम् । च꣣र्षणीना꣢म् ॥१५५॥

Mantra without Swara
पान्तमा वो अन्धस इन्द्रमभि प्र गायत । विश्वासाहꣳ शतक्रतुं मꣳहिष्ठं चर्षणीनाम् ॥

पान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत । विश्वासाहम् । विश्व । साहम् । शतक्रतुम् । शत । क्रतुम् । मँहिष्ठम् । चर्षणीनाम् ॥१५५॥

Samveda - Mantra Number : 155
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः ! (वः२) यूयम् (अन्धसः३) भोग्यं वस्तुजातम्। अन्धः इत्यन्ननाम। निघं० २।७। अन्नमिति सर्वेषां भोग्यवस्तूनाम् उपलक्षणम्। द्वितीयार्थे षष्ठी। (आ पान्तम्) समन्ततो रक्षन्तम्। पा रक्षणे इति धातोः शतरि रूपम्। (विश्वासाहम्) समस्तरिपुविजेतारम्। विश्वान् सर्वान् शत्रून् सहते पराभवतीति तादृशम्। अत् विश्वपूर्वात् षह मर्षणे धातोः छन्दसि सहः अ० ३।१।६३ इति ण्विः। अन्येषामपि दृश्यते। अ० ६।३।१३७ इति दीर्घश्च। (शतक्रतुम्) बहुप्रज्ञं, बहुकर्माणं, बहुयज्ञं वा। शतमिति बहुनाम। निघं० ३।१। क्रतुरिति कर्मनाम प्रज्ञानाम च। निघं– २।१, ३।९। क्रतुर्यज्ञवचनोऽपि प्रसिद्धः। (चर्षणीनाम्) मनुष्याणाम्। चर्षणय इति मनुष्यनाम। निघं० २।३। (मंहिष्ठम्) दातृतमम्। मंहते दानकर्मा। निघं० ३।२०। (इन्द्रम्) परमैश्वर्यशालिनं वीरं परमात्मानं राजानं वा (अभि) अभिलक्ष्य (प्र गायत) प्रकृष्टं गानं कुरुत, तत्तद्गुणकर्मस्वभावान् वर्णयत ॥१॥ अत्र श्लेषालङ्कारः परिकरश्च।
Essence
सर्वेषां मनुष्याणां योग्यमस्ति यत् ते जगद्रक्षकं समस्तकामक्रोधादिरिपुविजेतारम्, असंख्यप्रज्ञम्, असंख्यकर्माणम्, असंख्ययज्ञं, सर्वेभ्यो मनुष्येभ्यो विद्याधनधर्मादीनां दातृतमं परमात्मानं, राष्ट्ररक्षकं, शत्रुसैन्यानां पराजेतारं, विद्वांसं, कर्मठं, बहूनां यज्ञानां यष्टारं, प्रजाभ्योऽतिशयेन विद्याऽऽरोग्यधनादिप्रदायकं राजानं चाभिलक्ष्य तत्तद्गुणकर्मस्वभाववर्णनपराणि स्तुतिगीतान्युद्बोधनगीतानि च गायेयुरिति ॥१॥
Subject
अथेन्द्रस्य महत्त्वगानार्थं जनाः प्रेर्यन्ते।
Footnote
१. प्रथमायामृचि ७+८+८+७=३० इत्यक्षरसंख्यायां सामान्यतोऽनुष्टुच्छन्दसि स्वीकर्तव्येऽपि गायत्रीप्रकरणत्वादेषा गायत्री एवाभिमता। सेयं चतुष्पदा त्रिंशदक्षरा गायत्री। ऋ० ८।९२।१, ऋषिः श्रुतकक्षः सुकक्षो वा, छन्दः विराड् अनुष्टुप्। २. वः यूयम्—इति वि–०, भ०, सा०। ३. षष्ठीनिर्देशाच्च एकदेशमिति वाक्यशेषः। सोमलक्षणस्यान्नस्य एकदेशं पान्तम्—इति वि०। आपान्तम् आ पिबन्तम् आपास्यन्तम् अन्धसः अन्नस्य। सोममित्यर्थः—इति भ०। अन्धसः सोमलक्षणम् अन्नम् आपान्तम् आभिमुख्येन पिबन्तम्। पा पाने, छान्दसः शपो लुक्। सर्वे विधयश्छन्दसि विकल्प्यन्ते इति न लोकाव्यय० २।३।६९ इति षष्ठीप्रतिषेधाभावः। ततोऽन्धस इत्यत्र कर्तृ कर्मणोः २।३।६५ इति षष्ठी—इति सा०।