Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1549

1875 Mantra
Devata- अग्निः Rishi- उशना काव्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
क꣡या꣢ ते अग्ने अङ्गिर꣣ ऊ꣡र्जो꣢ नपा꣣दु꣡प꣢स्तुतिम् । व꣡रा꣢य देव म꣣न्य꣡वे꣢ ॥१५४९॥

क꣡या꣢꣯ । ते꣣ । अग्ने । अङ्गिरः । ऊ꣡र्जः꣢꣯ । न꣣पात् । उ꣡पस्तु꣢꣯तिम् । उ꣡प꣢꣯ । स्तु꣣तिम् । व꣡रा꣢꣯य । देव । मन्य꣡वे꣢ ॥१५४९॥

Mantra without Swara
कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् । वराय देव मन्यवे ॥

कया । ते । अग्ने । अङ्गिरः । ऊर्जः । नपात् । उपस्तुतिम् । उप । स्तुतिम् । वराय । देव । मन्यवे ॥१५४९॥

Samveda - Mantra Number : 1549
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अङ्गिरः) प्राणप्रिय, (ऊर्जः नपात्) बलस्य प्राणशक्तेश्च न पातयितः, (देव) प्रकाशक (अग्ने) जगन्नायक परमेश ! (वराय) वरणीयाय, श्रेष्ठाय (मन्यवे) मननीयाय तेजस्विने वा। [मन्यतेः ‘यजिमनिशुन्धिदसिजनिभ्यो युच्।’ उ० ३।२० इति युच्। ‘मन्युः मन्यतेर्दीप्तिकर्मणः’ इति निरुक्तम्। १०।२९।] (ते) तुभ्यम् (कया) कया रीत्या, वयम् (उपस्तुतिम्) स्तोत्रम्,कुर्याम इति प्रश्नः। तस्योत्तरं यद् वैदिक्या रीत्यैव स्तुतिः कर्तव्येति ॥१॥
Essence
सच्चिदानन्दस्वरूपस्य निराकारस्य सर्वशक्तिमतो न्यायकारिणो दयालोरजन्मनोऽनन्तस्य निर्विकारस्यानादेरनुपमस्य सर्वाधारस्य सर्वेश्वरस्य सर्वव्यापकस्य सर्वान्तर्यामिनोऽजरामराभयनित्यपवित्रस्य सृष्टिकर्तुः परमेशस्य स्तुतिर्वैदिक्या पद्धत्यैव कर्तव्या न साकारमूर्तिपूजनादिप्रकारेण ॥१॥
Subject
तत्रादौ परमात्मस्तुतिविषये प्रश्नमुत्थापयति।