Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1548

1875 Mantra
Devata- अग्निः Rishi- त्रित आप्त्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
भ꣣द्रो꣢ भ꣣द्र꣢या꣣ स꣡च꣢मा꣣न आ꣢गा꣣त्स्व꣡सा꣢रं जा꣣रो꣢ अ꣣꣬भ्ये꣢꣯ति प꣣श्चा꣢त् । सु꣣प्रकेतै꣡र्द्युभि꣢꣯र꣣ग्नि꣢र्वि꣣ति꣢ष्ठ꣣न्रु꣡श꣢द्भि꣣र्व꣡र्णै꣢र꣣भि꣢ रा꣣म꣡म꣢स्थात् ॥१५४८॥

भद्रः꣢ । भ꣣द्र꣡या꣢ । स꣡च꣢꣯मानः । आ । अ꣣गात् । स्व꣡सा꣢꣯रम् । जा꣣रः꣢ । अ꣣भि꣢ । ए꣣ति । पश्चा꣢त् । सु꣣प्रकेतैः꣢ । सु꣣ । प्रकेतैः꣢ । द्यु꣡भिः꣢꣯ । अ꣣ग्निः꣢ । वि꣣ति꣡ष्ठ꣢न् । वि꣣ । ति꣡ष्ठ꣢꣯न् । रु꣡श꣢꣯द्भिः । व꣡र्णैः꣢꣯ । अ꣣भि꣢ । रा꣣म꣢म् । अ꣣स्थात् ॥१५४८॥

Mantra without Swara
भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् । सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥

भद्रः । भद्रया । सचमानः । आ । अगात् । स्वसारम् । जारः । अभि । एति । पश्चात् । सुप्रकेतैः । सु । प्रकेतैः । द्युभिः । अग्निः । वितिष्ठन् । वि । तिष्ठन् । रुशद्भिः । वर्णैः । अभि । रामम् । अस्थात् ॥१५४८॥

Samveda - Mantra Number : 1548
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(भद्रः) श्रेष्ठः सूर्यः (भद्रया) श्रेष्ठया दीप्त्या (सचमानः) संयुज्यमानः (आगात्) आगतोऽस्ति। जारः रात्रेर्जरयिता सः (स्वसारम्) सुष्ठुतया तमसः प्रक्षेप्त्रीम् उषसम् (पश्चात् अभ्येति) आगच्छति। (अग्निः) अग्रनायको जगदीश्वरः (सुप्रकेतैः) सुप्रकाशैः (द्युभिः) तेजोभिः सह (वितिष्ठन्) व्याप्नुवन् (रुशद्भिः वर्णैः) सूर्यस्य रोचमानैः वर्णैः। (रामम्) कृष्णमन्धकारम् (अभि अस्थात्) अभिभवति ॥३॥
Essence
रात्रेरनन्तरमुषा, उषसोऽनन्तरं दिवसो, दिवसस्यानन्तरं सन्ध्या, सन्ध्याया अनन्तरं पुना रात्री रात्र्या अनन्तरं पुनरुषा इति यच्चक्रं प्रवर्तते तस्य चालयिता जगदीश्वरमतिरिच्य न कोऽपि वर्तते, मनुष्यस्य तत्राऽसामर्थ्यात् ॥३॥
Subject
अथ परमात्मैव प्राकृतिकं घटनाचक्रं सञ्चालयतीत्याह।