Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1546

1875 Mantra
Devata- अग्निः Rishi- त्रित आप्त्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
इ꣣नो꣡ रा꣢जन्न꣣रतिः꣡ समि꣢꣯द्धो꣣ रौ꣢द्रो꣣ द꣡क्षा꣢य सुषु꣣मा꣡ꣳ अ꣢दर्शि । चि꣣कि꣡द्वि भा꣢꣯ति भा꣣सा꣡ बृ꣢ह꣣ता꣡सि꣢क्नीमेति꣣ रु꣡श꣢तीम꣣पा꣡ज꣢न् ॥१५४६॥

इ꣣नः꣢ । रा꣣जन् । अरतिः꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । रौ꣡द्रः꣢꣯ । द꣡क्षा꣢꣯य । सु꣣षु꣢मान् । अ꣣दर्शि । चिकि꣢त् । वि । भा꣣ति । भासा꣢ । बृ꣣हता꣢ । अ꣡सि꣢꣯क्नीम् । ए꣣ति । रु꣡श꣢꣯तीम् । अ꣣पा꣡ज꣢न् । अ꣣प । अ꣡ज꣢꣯न् ॥१५४६॥

Mantra without Swara
इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाꣳ अदर्शि । चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥

इनः । राजन् । अरतिः । समिद्धः । सम् । इद्धः । रौद्रः । दक्षाय । सुषुमान् । अदर्शि । चिकित् । वि । भाति । भासा । बृहता । असिक्नीम् । एति । रुशतीम् । अपाजन् । अप । अजन् ॥१५४६॥

Samveda - Mantra Number : 1546
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (राजन्) विश्वसम्राट् सर्वान्तर्यामिन् परमात्मन् ! त्वम् (इनः) सर्वेश्वरः (अरतिः) सर्वव्यापकः। [ऋ गतौ धातोः ‘अर्तेश्च’। उ० ५।७ इति ऊतिप्रत्ययः।] (समिद्धः) स्वतःप्रकाशश्च असि। अथ परोक्षकृतमाह—(रौद्रः) दुष्टानां भयंकरः, (सुषुमान्) सज्जनेभ्यो रसवान् सः। [शोभनं सवनं सुषुः तद्वान्।] (दक्षाय बलप्राप्त्यर्थम् (अदर्शि) दृश्यते। (चिकित्) सर्वज्ञः सः (बृहता) महत्या (भासा) दीप्त्या (विभाति) भासते। (रुशतीम्) रोचमानाम् उषसम् (अपाजन्) अपगमयन् (असिक्नीम्) असितां रात्रिम्। [असिक्नी इति रात्रिनाम। निघं० १।७।] (एति) प्राप्नोति। तथैव असिक्नीं रात्रिम् अपाजन् रुशतीम् उषसम् एतीति व्यज्यते, तत्कृत एव सर्वोऽपि दिवसरात्र्यादिप्रपञ्च इति भावः ॥१॥
Essence
अहोरात्राः पक्षा मासा ऋतव उत्तरायणं दक्षिणायनं संवत्सर इत्यादिकः सर्वोऽपि कालविभागो जलं स्थलमाकाशश्चन्द्रः सूर्यस्तारका इत्यादिकश्च सकलोऽपि देशविभागः परमेश्वरकृत एव यत्र स सम्राड् भूत्वा सर्वं व्यवस्थापयति ॥१॥
Subject
तत्रादौ परमात्मनः कर्तृत्वं वर्णयति।