Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1543

1875 Mantra
Devata- अग्निः Rishi- विरूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
म꣣न्द्र꣡ꣳ होता꣢꣯रमृ꣣त्वि꣡जं꣢ चि꣣त्र꣡भा꣢नुं वि꣣भा꣡व꣢सुम् । अ꣣ग्नि꣡मी꣢डे꣣ स꣡ उ꣢ श्रवत् ॥१५४३॥

मन्द्र꣢म् । हो꣡ता꣢꣯रम् । ऋ꣣त्वि꣡ज꣢म् । चि꣣त्र꣡भा꣢नुम् । चि꣣त्र꣢ । भा꣣नुम् । विभा꣡व꣢सुम् । वि꣣भा꣢ । व꣣सुम् । अग्नि꣢म् । ई꣣डे । सः꣢ । उ꣣ । श्रवत् ॥१५४३॥

Mantra without Swara
मन्द्रꣳ होतारमृत्विजं चित्रभानुं विभावसुम् । अग्निमीडे स उ श्रवत् ॥

मन्द्रम् । होतारम् । ऋत्विजम् । चित्रभानुम् । चित्र । भानुम् । विभावसुम् । विभा । वसुम् । अग्निम् । ईडे । सः । उ । श्रवत् ॥१५४३॥

Samveda - Mantra Number : 1543
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मन्द्रम्) आनन्दमयम्, (होतारम्) सकलपदार्थप्रदातारम्, (ऋत्विजम्) ऋतूनां प्रदातारम्, ऋतौ ऋतौ यजनीयं वा। [ऋतून् यजति संगमयति यः सः, यद्वा ऋतौ ऋतौ इज्यते पूज्यते यः सः।] (चित्रभानुम्) पृश्निवर्णस्य सूर्यस्य रचयितारम्। [चित्रः भानुः यस्मात् स चित्रभानुः तम्।] (विभावसुम्) दीप्तिधनम् (अग्निम्) अग्रनेतारं जगदीश्वरम्, अहम् (ईडे) स्तौमि प्रार्थये वा। [ईड स्तुतौ, अदादिः। ईडिरध्येषणाकर्मा पूजाकर्मा वा। निरु० ७।१५।] (सः उ) स खलु, मदीयां स्तुतिं प्रार्थनां च (श्रवत्) शृणुयात्। [श्रु धातोर्विध्यर्थे लेट्] ॥३॥
Essence
य सच्चिदानन्दस्वरूपः सकलसृष्टिरचयिता सर्वर्तुचक्रप्रवर्तकः सूर्यचन्द्रतारादीनां प्रदीपकस्तेजोमयः परमेश्वरोऽस्ति स सर्वैर्जनैः प्रीत्या वन्दनीयः ॥३॥
Subject
अथ परमात्मनो गुणान् वर्णयति।