Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1541

1875 Mantra
Devata- अग्निः Rishi- विरूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣡त्ते꣢ बृ꣣ह꣡न्तो꣢ अ꣣र्च꣡यः꣢ समिधा꣣न꣡स्य꣢ दीदिवः । अ꣡ग्ने꣢ शु꣣क्रा꣡स꣢ ईरते ॥१५४१॥

उ꣢त् । ते꣣ । बृह꣡न्तः꣢ । अ꣣र्च꣡यः꣢ । स꣣मिधा꣡न꣢स्य । स꣣म् । इधान꣡स्य꣢ । दी꣣दिवः । अ꣡ग्ने꣢꣯ । शु꣣क्रा꣡सः꣢ । ई꣣रते ॥१५४१॥

Mantra without Swara
उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः । अग्ने शुक्रास ईरते ॥

उत् । ते । बृहन्तः । अर्चयः । समिधानस्य । सम् । इधानस्य । दीदिवः । अग्ने । शुक्रासः । ईरते ॥१५४१॥

Samveda - Mantra Number : 1541
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (दीदिवः२) सत्यप्रकाशक (अग्ने) विज्ञानवन् जगन्नेतः परमात्मन् ! (समिधानस्य) सम्यग् दीप्यमानस्य (ते) तव (बृहन्तः) महान्तः (शुक्रासः) पवित्राः (अर्चयः) प्रभाः (उदीरते) उद्गच्छन्ति ॥१॥
Essence
यदोपासकः परमात्मनि तन्मयो जायते तदा भौतिकाग्नेर्ज्वाला इव तस्य तेजोमयं रूपं तस्य पुरत आविर्भवति ॥१॥
Subject
तत्रादौ परमात्मनस्तेजो वर्णयति।