Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1537

1875 Mantra
Devata- अग्निः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣡जा꣢ नो मि꣣त्रा꣡वरु꣢꣯णा꣣ य꣡जा꣢ दे꣣वा꣢ꣳ ऋ꣣तं꣢ बृ꣣ह꣢त् । अ꣢ग्ने꣣ य꣢क्षि꣣ स्वं꣡ दम꣢꣯म् ॥१५३७॥

य꣢ज꣢꣯ । नः꣣ । मित्रा꣢ । मि꣣ । त्रा꣢ । व꣡रु꣢꣯णा । य꣡ज꣢꣯ । दे꣣वा꣢न् । ऋ꣣त꣢म् । बृ꣣ह꣢त् । अ꣡ग्ने꣢꣯ । य꣡क्षि꣢꣯ । स्वम् । द꣡म꣢꣯म् ॥१५३७॥

Mantra without Swara
यजा नो मित्रावरुणा यजा देवाꣳ ऋतं बृहत् । अग्ने यक्षि स्वं दमम् ॥

यज । नः । मित्रा । मि । त्रा । वरुणा । यज । देवान् । ऋतम् । बृहत् । अग्ने । यक्षि । स्वम् । दमम् ॥१५३७॥

Samveda - Mantra Number : 1537
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) जगन्नियन्तः परमेश ! त्वम् (नः) अस्मभ्यम् (मित्रावरुणा) मित्रावरुणौ, मित्रं मैत्रीगुणं वरुणं दोषनिवारकं गुणं च (यज) प्रदेहि। (देवान्) अन्यान् दिव्यान् गुणान् (बृहत् ऋतम्) महत् सत्यञ्च (यज) प्रदेहि। अपि च (स्वं दमम्) स्वकीयं दमनगुणमपि (यक्षि) प्रदेहि ॥३॥२
Essence
यः परमेश्वरः सर्वेषां गुणानामाकरोऽस्ति सोऽस्मभ्यमपि दिव्यान् गुणान् प्रयच्छेत् ॥३॥
Subject
अथ परमात्मानं प्रार्थयते।