Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1536

1875 Mantra
Devata- अग्निः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्वं꣢ जा꣣मि꣡र्जना꣢꣯ना꣣म꣡ग्ने꣢ मि꣣त्रो꣡ अ꣢सि प्रि꣣यः꣢ । स꣢खा꣣ स꣡खि꣢भ्य꣣ ई꣡ड्यः꣢ ॥१५३६॥

त्वम् । जा꣣मिः꣢ । ज꣡ना꣢꣯नाम् । अ꣡ग्ने꣢꣯ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣सि । प्रियः꣢ । स꣡खा꣢꣯ । स । खा꣣ । स꣡खि꣢꣯भ्यः । स । खि꣣भ्यः । ई꣡ड्यः꣢꣯ ॥१५३६॥

Mantra without Swara
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । सखा सखिभ्य ईड्यः ॥

त्वम् । जामिः । जनानाम् । अग्ने । मित्रः । मि । त्रः । असि । प्रियः । सखा । स । खा । सखिभ्यः । स । खिभ्यः । ईड्यः ॥१५३६॥

Samveda - Mantra Number : 1536
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) जगन्नायक परमेश ! (त्वम्) सर्वहितचिन्तकः त्वम् (जनानाम्) जातानां मानवानां मध्ये (जामिः) सहायको बन्धुः (प्रियः मित्रः) प्रियः सखा च (असि) भवसि। (सखिभ्यः) ये त्वया सह सख्यं स्थापयन्ति तेभ्यः (ईड्यः) स्तुत्यः (सखा) सुहृद् भवसि ॥२॥२
Essence
परमेश्वरस्य कश्चित् सहायको नास्ति, प्रत्युत परमेश्वर एव परेषां सहायको बन्धुः प्रियः सुहृच्च जायते ॥२॥
Subject
अथ परमात्मगुणान् वर्णयति।