Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1535

1875 Mantra
Devata- अग्निः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
क꣡स्ते꣢ जा꣣मि꣡र्जना꣢꣯ना꣣म꣢ग्ने꣣ को꣢ दा꣣꣬श्व꣢꣯ध्वरः । को꣢ ह꣣ क꣡स्मि꣢न्नसि श्रि꣣तः꣢ ॥१५३५॥

कः꣢ । ते꣣ । जामिः꣢ । ज꣡ना꣢꣯नाम् । अ꣡ग्ने꣢꣯ । कः । दाश्व꣣ध्वरः । दा꣣शु꣢ । अ꣣ध्वरः । कः꣢ । ह꣣ । क꣡स्मि꣢꣯न् । अ꣣सि । श्रितः꣢ ॥१५३५॥

Mantra without Swara
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः । को ह कस्मिन्नसि श्रितः ॥

कः । ते । जामिः । जनानाम् । अग्ने । कः । दाश्वध्वरः । दाशु । अध्वरः । कः । ह । कस्मिन् । असि । श्रितः ॥१५३५॥

Samveda - Mantra Number : 1535
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 15; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) जगन्नायक परमेश ! (जनानाम्) जातानां मानवानां मध्ये (कः ते जामिः) कस्तव बन्धुः सहायकः अस्ति, इति काकुः, न कोऽपीत्यर्थः। (कः) जनानां मध्ये कः (दाश्वध्वरः) दाशुः तुभ्यं फलप्रदः अध्वरः यज्ञः यस्य तादृशः अस्ति ? अत्रापि काकुः, न कोऽपीत्यर्थः। यतः सर्वे स्वलाभायैव यज्ञं कुर्वन्ति, न त्वल्लाभाय। (कः ह) त्वं कोऽसि खलु ? (कस्मिन् श्रितः असि) कस्मिन् आश्रितो विद्यसे ? अन्त्ययोः प्रश्नयोरुत्तरमप्यत्रैवान्तर्निहितम् त्वम् (कः) कमनीयः, सर्वातिक्रान्तः, सुखस्वरूपश्च असि, इति। [कः कमनो वा क्रमणो वा सुखो वा। निरु० १०।२३।] किञ्च, कस्मिन्नसि श्रितः इति काकुः। न कस्मिन्नपीत्यर्थः, आत्मनिर्भरत्वात् ॥१॥२ अत्र काकुवक्रोक्तिरलङ्कारः, तृतीये प्रश्ने च श्लेषः। यद्वा मन्त्रोऽयं गूढोत्तररूपा प्रहेलिका ॥१॥
Essence
सर्वेभ्यो महान् परमेश्वरो जगत्सञ्चालनाय कमपि सहायकं बन्धुं कमप्याश्रयदातारं वा नापेक्षते। नापि च कस्यापि केनापि कार्येण स्वकीयं लाभमीहते ॥१॥
Subject
तत्रादौ परमात्मविषये प्रश्नानुत्थापयति।