Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1533

1875 Mantra
Devata- अग्निः Rishi- विरूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ई꣡शि꣢षे꣣ वा꣡र्य꣢स्य꣣ हि꣢ दा꣣त्र꣡स्या꣢ग्ने꣣꣬ स्वः꣢꣯पतिः । स्तो꣣ता꣢ स्यां꣣ त꣢व꣣ श꣡र्म꣢णि ॥१५३३॥

ई꣡शि꣢꣯षे । वा꣡र्य꣢꣯स्य । हि । दा꣣त्र꣡स्य꣢ । अ꣣ग्ने । स्वः꣢पति । स्वऽ३रि꣡ति꣢ । प꣣तिः । स्तोता꣢ । स्या꣣म् । त꣡व꣢꣯ । श꣡र्म꣢꣯णि ॥१५३३॥

Mantra without Swara
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः । स्तोता स्यां तव शर्मणि ॥

ईशिषे । वार्यस्य । हि । दात्रस्य । अग्ने । स्वःपति । स्वऽ३रिति । पतिः । स्तोता । स्याम् । तव । शर्मणि ॥१५३३॥

Samveda - Mantra Number : 1533
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) जगन्नायक विश्ववन्द्य सर्ववित् सर्वान्तर्यामिन् तेजोमय करुणाकर परमेश ! (स्वः पतिः) आनन्दस्य दिव्यप्रकाशस्य चाधिपतिः त्वम् (वार्यस्य) वरणीयस्य, (दात्रस्य) दातव्यस्य ऐश्वर्यस्य (ईशिषे हि) ईश्वरोऽसि खलु। (शर्मणि) त्वदीयशरणप्राप्तिनिमित्तम् अहम् (तव) त्वदीयः (स्तोता) गुणकर्मस्वभावानां कीर्तयिता (स्याम्) भवेयम् ॥२॥
Essence
परमात्मनो गुणकर्मस्वभावानां चिन्तनादांशिकरूपेण मानवोऽपि तथाविधो भवितुं शक्नोति ॥२॥
Subject
अथ परमात्माग्निविषयमाह।