Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1532

1875 Mantra
Devata- अग्निः Rishi- विरूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ग्नि꣢र्मू꣣र्धा꣢ दि꣣वः꣢ क꣣कु꣡त्पतिः꣢꣯ पृथि꣣व्या꣢ अ꣣य꣢म् । अ꣣पा꣡ꣳ रेता꣢꣯ꣳसि जिन्वति ॥१५३२॥

अ꣣ग्निः꣢ । मू꣣र्धा꣢ । दि꣣वः꣢ । क꣣कु꣢त् । प꣡तिः꣢꣯ । पृ꣣थिव्याः꣢ । अ꣡य꣢म् । अ꣣पा꣢म् । रे꣡वा꣢꣯ꣳसि । जि꣢न्वति ॥१५३२॥

Mantra without Swara
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपाꣳ रेताꣳसि जिन्वति ॥

अग्निः । मूर्धा । दिवः । ककुत् । पतिः । पृथिव्याः । अयम् । अपाम् । रेवाꣳसि । जिन्वति ॥१५३२॥

Samveda - Mantra Number : 1532
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निः) अग्निरेव देहे (मूर्धा) मस्तिष्कमस्ति, अग्निप्रधानत्वान्मस्तिष्कस्य, अयमेव सूर्यरूपेण (दिवः) द्युलोकस्य (ककुत्) राजा अस्ति, (अयम्) अयमेव पार्थिवाग्निरूपेण (पृथिव्याः) भूमेः (पतिः) पालकोऽस्ति। अग्निरेव (अपाम्) उदकानाम् (रेतांसि) सूक्ष्मानवयवान् (जिन्वति) भूमेरन्तरिक्षं प्रति अन्तरिक्षाच्च भूमिं प्रति प्रेरयति, वृष्टिनिमित्तं भवतीत्यर्थः ॥१॥२ अत्रैकस्याग्नेरनेकधोल्लेखे विषयभेदनिबन्धन उल्लेखालङ्कारः३ ॥१॥
Essence
अग्निरेव हि सर्वस्य चेतनाचेतनात्मकस्य जगतः स्थितिनिबन्धनम्। स एव वह्निविद्युदादित्यजाठराग्निप्राणाग्निवाडवाग्न्यादिरूपेणा- नेकधा विद्यमानोऽस्मानुपकरोति, यथाह श्रुतिः—एक॑ ए॒वाग्निर्ब॑हु॒धा समिद्धः (ऋ० ८।५८।२) इति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २७ क्रमाङ्के परमात्मपक्षे सूर्यपक्षे च व्याख्याता। अत्राग्नितत्त्वस्य महत्त्वमुच्यते।