Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1531

1875 Mantra
Devata- अग्निः Rishi- केतुराग्नेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡ग्ने꣢ के꣣तु꣢र्वि꣣शा꣡म꣢सि꣣ प्रे꣢ष्ठः꣣ श्रे꣡ष्ठ꣢ उपस्थ꣣स꣢त् । बो꣡धा꣢ स्तो꣣त्रे꣢꣫ वयो꣣ द꣡ध꣢त् ॥१५३१॥

अ꣡ग्ने꣢꣯ । के꣣तुः꣢ । वि꣣शा꣢म् । अ꣣सि । प्रे꣡ष्ठः꣢꣯ । श्रे꣡ष्ठः꣢꣯ । उ꣣पस्थस꣢त् । उ꣣पस्थ । स꣢त् । बो꣡ध꣢꣯ । स्तो꣣त्रे꣢ । व꣡यः꣢꣯ । द꣡ध꣢꣯त् ॥१५३१॥

Mantra without Swara
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् । बोधा स्तोत्रे वयो दधत् ॥

अग्ने । केतुः । विशाम् । असि । प्रेष्ठः । श्रेष्ठः । उपस्थसत् । उपस्थ । सत् । बोध । स्तोत्रे । वयः । दधत् ॥१५३१॥

Samveda - Mantra Number : 1531
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनायक जगदीश्वर नृपते वा ! त्वम् (विशाम्) प्रजानाम् (केतुः) ज्ञानप्रदः, (प्रेष्ठः) प्रियतमः, (श्रेष्ठः) प्रशस्यतमः, (उपस्थसत्) समीपे विद्यमानश्च (असि) वर्तसे। त्वम् (स्तोत्रे) स्तुतिकर्त्रे राष्ट्रभक्ताय वा (वयः) धनान्नायुष्यादिकम् (दधत्) प्रयच्छन् तम् (बोध) बोधय, नित्यं कर्तव्यं प्रति जागरूकं कुरु ॥५॥
Essence
यथा जगदीश्वरः सर्वेषां ज्ञानप्रदः प्रियतमः प्रशस्यतमः सुखसम्पत्प्रदाताऽऽयुष्यकरो जागरयिता च वर्तते तथैव नृपतिना भाव्यम् ॥५॥
Subject
अथ पुनरपि परमात्मानं नृपतिं च सम्बोधयति।