Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1530

1875 Mantra
Devata- अग्निः Rishi- केतुराग्नेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢ग्ने꣣ न꣡क्ष꣢त्रम꣣ज꣢र꣣मा꣡ सूर्य꣢꣯ꣳ रोहयो दि꣣वि꣢ । द꣢ध꣣ज्ज्यो꣢ति꣣र्ज꣡ने꣢भ्यः ॥१५३०॥

अ꣡ग्ने꣢꣯ । न꣡क्ष꣢꣯त्रम् । अ꣣ज꣡र꣢म् । अ꣣ । ज꣡र꣢꣯म् । आ । सू꣡र्य꣢꣯म् । रो꣣हयः । दि꣣वि꣢ । द꣡ध꣢꣯त् । ज्यो꣡तिः꣢꣯ । ज꣡ने꣢꣯भ्यः ॥१५३०॥

Mantra without Swara
अग्ने नक्षत्रमजरमा सूर्यꣳ रोहयो दिवि । दधज्ज्योतिर्जनेभ्यः ॥

अग्ने । नक्षत्रम् । अजरम् । अ । जरम् । आ । सूर्यम् । रोहयः । दिवि । दधत् । ज्योतिः । जनेभ्यः ॥१५३०॥

Samveda - Mantra Number : 1530
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (अग्ने) ज्योतिर्मय प्रकाशक जगन्नेतः परमात्मन् ! (जनेभ्यः) जातेभ्यः प्राणिभ्यः (ज्योतिः) प्रकाशम् (दधत्) प्रयच्छन् सन् त्वम् (नक्षत्रम्) गतिमयम्, स्वधुरि परिभ्रमन्तम्। [नक्षत्राणि नक्षतेर्गतिकर्मणः। निरु० ३।२०।] (अजरम्) आसृष्टेरद्यावधि अजीर्णम् (सूर्यम्) आदित्यम् (दिवि) आकाशे (आ रोहयः) आरोहितवानसि ॥ द्वितीयः—नृपतिपरः। हे (अग्ने) राष्ट्रनायक राजन् (जनेभ्यः) प्रजाभ्यः (ज्योतिः) विद्याप्रकाशं विद्युत्प्रकाशं च (दधत्) जनयन् त्वम् (नक्षत्रम्) गतिमन्तम्, (अजरम्) जीर्णतारहतिम् (सूर्यम्) विद्याया धर्मस्य च आदित्यम् (दिवि) राष्ट्रगगने (आरोहयः) आरोहितवानसि ॥४॥
Essence
यथा परमेश्वरो गगने वस्तुत एव सूर्यं जनयति तथैव यो राजा राष्ट्रे पराविद्याया अपराविद्याया धर्मस्य च प्रकाशं करोति सोऽपि सूर्यमिव जनयतीत्युच्यते ॥४॥
Subject
अथ पुनस्तमेव विषयमाह।