Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 153

1875 Mantra
Devata- इन्द्रः Rishi- शुनः शेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
रे꣣व꣡ती꣢र्नः सध꣣मा꣢द꣣ इ꣡न्द्रे꣢ सन्तु तु꣣वि꣡वा꣢जाः । क्षु꣣म꣢न्तो꣣ या꣢भि꣣र्म꣡दे꣢म ॥१५३॥

रे꣣व꣡तीः꣢ । नः꣣ । सधमा꣡दे꣢ । स꣣ध । मा꣡दे꣢꣯ । इ꣡न्द्रे꣢꣯ । स꣣न्तु । तुवि꣡वा꣢जाः । तु꣣वि꣢ । वा꣣जाः । क्षुम꣡न्तः꣢ । या꣡भिः꣢꣯ । म꣡दे꣢꣯म ॥१५३॥

Mantra without Swara
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर्मदेम ॥

रेवतीः । नः । सधमादे । सध । मादे । इन्द्रे । सन्तु । तुविवाजाः । तुवि । वाजाः । क्षुमन्तः । याभिः । मदेम ॥१५३॥

Samveda - Mantra Number : 153
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(नः) अस्माकम् (रेवतीः) रयिमत्यः प्रशस्तेन ऐश्वर्येण सम्पन्नाः प्रजाः। रयिः प्रशस्तं धनं विद्यते यासु ताः प्रजाः। अत्र प्रशंसार्थे मतुप्। रयेर्मतौ बहुलम्। अ० ६।१।३७ वा० अनेन सम्प्रसारणम्। छन्दसीरः। अ० ८।२।१५ इति मस्य वत्वम्। वा छन्दसि। अ० ६।१।१०६ इति नियमेन पूर्वसवर्णदीर्घः। (सधमादे) सह माद्यन्ति हर्षन्ति जना अत्र इति सधमादः, तस्मिन् (इन्द्रे) परमैश्वर्यशालिनि परमेश्वरे राज्ञि च, तयोराश्रये मार्गदर्शने इति यावत् (तुविवाजाः२) बहुबलाः बहुविज्ञानाश्च। वाज इति बलनाम। निघं० २।९। सन्तु भवन्तु, (याभिः) विड्भिः प्रजाभिः सह (क्षुमन्तः३) प्रशस्तान्नादिभोग्यसम्भारसम्पन्नाः प्रशस्तनिवासवन्तः प्रशस्तकीर्तिमन्तो वा वयम्। क्षु इत्यन्ननाम। निघं० २।७। क्षि निवासगत्योः औणादिको डु प्रत्ययः। (मदेम) आनन्देम। मदी हर्षग्लेपनयोः, भ्वादिः ॥९॥४
Essence
अखिलैरपि प्रजाजनैरिन्द्राख्यस्य परमात्मनो नृपतेश्च मार्गदर्शने सर्वमपि कार्यं विधेयम्, येन ते रोगबुभुक्षाऽकालमरणादिभिर्न पीड्येरन् प्रत्युत समस्तानि सात्त्विकखाद्यपेयादीनि बलविज्ञानादीनि च प्राप्नुवन्तः समृद्धाः सन्तः प्रचुरप्रचुरं मोदमवाप्नुयुः ॥९॥
Subject
अथ परमात्मनो नृपस्य च संरक्षणे सर्वे सुखिनः सन्त्वित्याह।
Footnote
१. ऋ० १।३०।१३, अथ० २०।१२२।१, साम० १०८४। २. तुविवाजाः तुवि बहुविधो वाजो विद्याबोधो यासां ताः विशः प्रजाः—इति ऋ० १।३०।१३ भाष्ये द०। प्रभूतान्नाः—इति वि०। बह्वन्नाः—इति भ०। प्रभूतबलाः—इति सा०। ३. क्षुमन्तः। क्षु, क्षु शब्दे इत्यस्येदं रूपम्। शब्दवन्तः कीर्तिमन्तः—इति वि०। कीर्तिमन्तः—इति भ०। अन्नवन्तः—इति सा०। बहुविधं क्षु अन्नं विद्यते येषां ते—इति ऋग्भाष्ये द०। अत्र भूम्न्यर्थे मतुप्। ४. ऋग्भाष्ये दयानन्दर्षिणाऽयं मन्त्रः प्रजानां परमैश्वर्यप्राप्तिपक्षे व्याख्यातः।