Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1529

1875 Mantra
Devata- अग्निः Rishi- केतुराग्नेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ग्ने꣢ स्थू꣣र꣢ꣳ र꣣यिं꣡ भ꣢र पृ꣣थुं꣡ गोम꣢꣯न्तम꣣श्वि꣡न꣢म् । अ꣣ङ्धि꣢꣫ खं व꣣र्त꣡या꣢ प꣣वि꣢म् ॥१५२९॥

आ । अ꣣ग्ने । स्थूर꣢म् । र꣣यि꣢म् । भ꣣र । पृथु꣢म् । गो꣡म꣢꣯न्तम् । अ꣣श्वि꣡न꣢म् । अ꣣ङ्धि꣢ । खम् । व꣣र्त꣡य꣢ । प꣣वि꣢म् ॥१५२९॥

Mantra without Swara
आग्ने स्थूरꣳ रयिं भर पृथुं गोमन्तमश्विनम् । अङ्धि खं वर्तया पविम् ॥

आ । अग्ने । स्थूरम् । रयिम् । भर । पृथुम् । गोमन्तम् । अश्विनम् । अङ्धि । खम् । वर्तय । पविम् ॥१५२९॥

Samveda - Mantra Number : 1529
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनायक जगदीश्वर राजन् वा ! त्वम् (गोमन्तम्) अन्तःप्रकाशयुक्तं धेनुपृथिव्यादियुक्तं वा, (अश्विनम्) प्राणसम्पद्युक्तं प्रशस्ततुरङ्गमयुक्तं वा, (पृथुम्) सुविशालम्, (स्थूरम्) सुस्थिरम् (रयिम्) ऐश्वर्यम् (आभर) आहर। (खम्) हृदयाकाशं राष्ट्राकाशं वा (अङ्धि) तामसिकतामपसार्य निर्मलं कुरु। अन्तःशत्रूणां बाह्यशत्रूणां वा विध्वंसनाय (पविम्) पवित्रभावं वज्रायुधं वा (वर्तय) प्रयुङ्क्ष्व ॥३॥
Essence
यथा जगदीश्वरः सर्वानान्तरान् विघ्नान् शत्रूंश्च विनाश्यान्तरात्मानं पवित्रं करोति तथैव राष्ट्रस्य राजा बाह्यानुपद्रवकारिणो हत्वा राष्ट्रं निष्कण्टकं कुर्यात् ॥३॥
Subject
अथ पुनरपि परमेश्वरो नृपतिश्च प्रार्थ्येते।