Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1527

1875 Mantra
Devata- अग्निः Rishi- केतुराग्नेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ग्नि꣡ꣳ हि꣢न्वन्तु नो꣣ धि꣢यः꣣ स꣡प्ति꣢मा꣣शु꣡मि꣢वा꣣जि꣡षु꣢ । ते꣡न꣢ जेष्म꣣ ध꣡नं꣢धनम् ॥१५२७॥

अ꣣ग्नि꣢म् । हि꣣न्वन्तु । नः । धि꣡यः꣢꣯ । स꣡प्ति꣢꣯म् । आ꣣शु꣢म् । इ꣣व । आजि꣡षु꣢ । ते꣡न꣢꣯ । जे꣣ष्म । ध꣡नं꣢꣯धनम् । ध꣡न꣢꣯म् । ध꣣नम् ॥१५२७॥

Mantra without Swara
अग्निꣳ हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु । तेन जेष्म धनंधनम् ॥

अग्निम् । हिन्वन्तु । नः । धियः । सप्तिम् । आशुम् । इव । आजिषु । तेन । जेष्म । धनंधनम् । धनम् । धनम् ॥१५२७॥

Samveda - Mantra Number : 1527
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(नः) अस्माकम् (धियः) ध्यानक्रियाः बुद्धयो वा (अग्निम्) अग्रनायकं परमात्मानं नृपतिं वा (हिन्वन्तु) प्रेरयन्तु। कथमिव ? (आजिषु) युद्धेषु (आशुं सप्तिम् इव) वेगवन्तम् अश्वं यथा प्रेरयन्ति तद्वत्। (तेन) परमात्मना नृपतिना वा (धनं धनम्) प्रत्येकम् आध्यात्मिकं भौतिकं वा ऐश्वर्यम्, वयम् (जेष्म) जयेम। [जि जये, लिङर्थे लुङ्। अडभावो वृद्ध्यभावश्च छान्दसः] ॥१॥अत्रोपमालङ्कारः ॥१॥
Essence
दिव्यसम्पदां भौतिकसम्पदां च प्राप्तये परमेश्वरो नृपतिश्च परमसहायकौ जायेते ॥१॥
Subject
तत्रादौ परमात्मनृपत्योर्विषय उच्यते।