Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1525

1875 Mantra
Devata- अग्निः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ नो꣢ अग्ने र꣣यिं꣡ भ꣢र सत्रा꣣सा꣢हं꣣ व꣡रे꣢ण्यम् । वि꣡श्वा꣢सु पृ꣣त्सु꣢ दु꣣ष्ट꣡र꣢म् ॥१५२५॥

आ꣢ । नः꣣ । अग्ने । रयि꣢म् । भ꣣र । स꣡त्रासाह꣢म् । स꣣त्रा । सा꣡ह꣢꣯म् । व꣡रे꣢꣯ण्यम् । वि꣡श्वा꣢꣯सु । पृ꣣त्सु꣢ । दु꣣ष्ट꣡र꣢म् । दुः꣣ । त꣡र꣢꣯म् ॥१५२५॥

Mantra without Swara
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् । विश्वासु पृत्सु दुष्टरम् ॥

आ । नः । अग्ने । रयिम् । भर । सत्रासाहम् । सत्रा । साहम् । वरेण्यम् । विश्वासु । पृत्सु । दुष्टरम् । दुः । तरम् ॥१५२५॥

Samveda - Mantra Number : 1525
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनायक जगदीश्वर ! त्वम् (नः) अस्मभ्यम् (सत्रासाहम्) युगपदनेकासां विपदां विदारकम्, (वरेण्यम्) वरणीयम्, (विश्वासु पृत्सु) सर्वेषु संग्रामेषु (दुष्टरम्) दुस्तरम्, अनाच्छेद्यम् (रयिम्) वीरतारूपम् ऐश्वर्यम् (आ भर) आहर, प्रदेहि ॥२॥२
Essence
परमवीरं परमेश्वरं ध्यात्वा वयं वीरगणाग्रगण्याः सन्तः सर्वा विपदः सर्वांश्चाभ्यन्तरान् बाह्यांश्च शत्रून् पराजयेमहि ॥२॥
Subject
अथ पुनर्जगदीश्वरं प्रार्थयते।