Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1523

1875 Mantra
Devata- अग्निः Rishi- वसूयव आत्रेयाः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वी꣣ति꣡हो꣢त्रं त्वा कवे द्यु꣣म꣢न्त꣣ꣳ स꣡मि꣢धीमहि । अ꣡ग्ने꣢ बृ꣣ह꣡न्त꣢मध्व꣣रे꣢ ॥१५२३॥

वीति꣡हो꣢त्रम् । वी꣣ति꣢ । हो꣣त्रम् । त्वा । कवे । द्युम꣡न्त꣢म् । सम् । इ꣣धीमहि । अ꣡ग्ने꣢꣯ । बृ꣣ह꣡न्त꣢म् । अ꣣ध्वरे꣢ ॥१५२३॥

Mantra without Swara
वीतिहोत्रं त्वा कवे द्युमन्तꣳ समिधीमहि । अग्ने बृहन्तमध्वरे ॥

वीतिहोत्रम् । वीति । होत्रम् । त्वा । कवे । द्युमन्तम् । सम् । इधीमहि । अग्ने । बृहन्तम् । अध्वरे ॥१५२३॥

Samveda - Mantra Number : 1523
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (कवे) क्रान्तदर्शिन् (अग्ने) सर्ववित् सर्वान्तर्यामिन् जगदीश्वर विद्वन् आचार्य वा ! (वीतिहोत्रम्) व्याप्तजगदुत्पत्तियज्ञं व्याप्तविद्यायज्ञं वा, (द्युमन्तम्) तेजस्विनम्, (बृहन्तम्) गुणैर्महान्तम् (त्वा) त्वाम्, वयम् (अध्वरे) उपासनायज्ञे जीवनयज्ञे विद्याध्ययनयज्ञे वा (समिधीमहि) प्रदीपयामः ॥३॥२
Essence
ये परमात्मानमाचार्यं च सेवन्ते ते विद्वांसः सदाचारा गुणवन्तः कर्मशूराश्च सन्तोऽभ्युदयं निःश्रेयसं च लभन्ते ॥३॥ अस्मिन् खण्डेऽग्निहोत्रपरमात्मनृपतियोगिराडाचार्यविषयवर्णनादे- तत्खण्डस्य पूर्वखण्डेन संगतिरस्ति।
Subject
अथ पुनरपि तद्विषये प्रोच्यते।