Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1522

1875 Mantra
Devata- अग्निः Rishi- वसूयव आत्रेयाः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
तं꣡ त्वा꣢ घृतस्नवीमहे꣣ चि꣡त्र꣢भानो स्व꣣र्दृ꣡श꣢म् । दे꣣वा꣢꣫ꣳ आ वी꣣त꣡ये꣢ वह ॥१५२२॥

त꣢म् । त्वा꣣ । घृतस्नो । घृत । स्नो । ईमहे । चि꣡त्र꣢꣯भानो । चि꣡त्र꣢꣯ । भा꣣नो । स्वर्दृ꣡श꣢म् । स्वः꣣ । दृ꣡श꣢꣯म् । दे꣣वा꣢न् । आ । वी꣣त꣡ये꣢ । व꣣ह ॥१५२२॥

Mantra without Swara
तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् । देवाꣳ आ वीतये वह ॥

तम् । त्वा । घृतस्नो । घृत । स्नो । ईमहे । चित्रभानो । चित्र । भानो । स्वर्दृशम् । स्वः । दृशम् । देवान् । आ । वीतये । वह ॥१५२२॥

Samveda - Mantra Number : 1522
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (घृतस्नो) विद्यारसस्य आनन्दरसस्य च प्रस्रावक, (चित्रभानो) अद्भुततेजःसम्पन्न अग्ने जगदीश्वर आचार्य वा ! (तम्) प्रसिद्धम् (स्वर्दृशम्) विवेकप्रकाशस्य दर्शयितारम् (त्वा) त्वाम् वयम् (ईमहे) याचामहे। त्वम् (वीतये) अस्माकं प्रगतये (देवान्) दिव्यगुणान् (आ वह) प्रापय ॥२॥२
Essence
परमात्मोपासनेनाचार्यकुलवासेन चानन्दरसो विद्यारसः कर्तव्याकर्तव्यप्रकाशो जीवने प्रगतिश्च प्राप्यते ॥२॥
Subject
अथ पुनरपि तावेव प्रार्थयते।