Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1520

1875 Mantra
Devata- अग्निः पवमानः Rishi- शतं वैखानसाः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢ग्ने꣣ प꣡व꣢स्व꣣ स्व꣡पा꣢ अ꣣स्मे꣡ वर्चः꣢꣯ सु꣣वी꣡र्य꣢म् । द꣡ध꣢द्र꣣यिं꣢꣫ मयि꣣ पो꣡ष꣢म् ॥१५२०॥

अ꣡ग्ने꣢꣯ । प꣡व꣢꣯स्व । स्व꣡पाः꣢꣯ । सु꣣ । अ꣡पाः꣢ । अ꣣स्मे꣡इति꣢ । व꣡र्चः꣢꣯ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । द꣡ध꣢꣯त् । र꣣यि꣢म् । म꣡यि꣢꣯ । पो꣡ष꣢꣯म् ॥१५२०॥

Mantra without Swara
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधद्रयिं मयि पोषम् ॥

अग्ने । पवस्व । स्वपाः । सु । अपाः । अस्मेइति । वर्चः । सुवीर्यम् । सु । वीर्यम् । दधत् । रयिम् । मयि । पोषम् ॥१५२०॥

Samveda - Mantra Number : 1520
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) योगविद्याविद् विद्वन् ! (स्वपाः) शोभनानि अपांसि कर्माणि यस्य तादृशः त्वम् (अस्मे) अस्मभ्यम् (सुवीर्यम्) श्रेष्ठवीर्योपेतम् (वर्चः) योगजन्यं तेजः (पवस्व) प्रापय, किञ्च (मयि) योगजिज्ञासौ (पोषम्) पोषकम् (रयिम्) विवेकख्यातिरूपम् अध्यात्मं धनम् (दधत्) धारयन्, भवेति शेषः ॥३॥
Essence
योगप्रशिक्षको योगिराट् स्वयं शुभकर्मा सन् शिष्यानपि शुभकर्मकरणायोपदिशेत्, योगाभ्यासद्वारा च तान् मुमुक्षून् वर्चस्विनः विवेकख्यातिमतश्च कृत्वा निःश्रेयसाधिकारिणः कुर्यात् ॥३॥
Subject
अथ योगप्रशिक्षकः किं कुर्यादित्युच्यते।