Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 152

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣ह꣢꣫मिद्धि पि꣣तु꣡ष्परि꣢ मे꣣धा꣢मृ꣣त꣡स्य꣢ ज꣣ग्र꣡ह꣢ । अ꣣ह꣡ꣳ सूर्य꣢꣯ इवाजनि ॥१५२॥

अ꣣ह꣢म् । इत् । हि । पि꣣तुः꣢ । प꣡रि꣢꣯ । मे꣣धा꣢म् । ऋ꣣त꣡स्य꣢ । ज꣣ग्र꣡ह꣢ । अ꣣ह꣢म् । सू꣡र्यः꣢꣯ । इ꣣व । अजनि ॥१५२॥

Mantra without Swara
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह । अहꣳ सूर्य इवाजनि ॥

अहम् । इत् । हि । पितुः । परि । मेधाम् । ऋतस्य । जग्रह । अहम् । सूर्यः । इव । अजनि ॥१५२॥

Samveda - Mantra Number : 152
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अहम्) परमेश्वरोपासकः (इत् हि) किल (पितुः२ परि) पितुं इन्द्रात् परमेश्वरात्। परि इति पञ्चम्यर्थानुवादी, ‘पञ्चम्याः परावध्यर्थे।’ अ० ८।३।५१ इति विसर्जनीयस्य सत्वम्, ततो मूर्धन्यादेशः। (ऋतस्य मेधाम्) सत्याचरणस्य प्रज्ञाम्, ऋतम्भरां प्रज्ञां वा। निर्विचारवैशारद्येऽध्यात्मप्रसादः। ऋतम्भरा तत्र प्रज्ञा। योग० १।४७, ४८ इति योगदर्शने व्याख्यातम्। (जग्रह) गृहीतवानस्मि। ऋतम्भराप्रज्ञाप्रकाशेन प्रकाशमानश्च (अहम्) अध्यात्मपथिकः (सूर्यः इव) आदित्यः इव (अजनि) जातोऽस्मि ॥८॥ अत्रोपमालङ्कारः ॥८॥
Essence
पितुः परमेश्वरस्योपासनया मनुष्यः सत्यज्ञानं सत्याचरणम् ऋतम्भरां प्रज्ञां च प्राप्य सूर्य इव प्रकाशमानः सन् कैवल्यमधिगन्तुमर्हति ॥८॥
Subject
अथोपासकः स्वोपलब्धिं वर्णयति।
Footnote
१. ऋ० ८।६।१०, अथ० २०।११५।१, उभयत्र जग्रह इत्यस्य स्थाने जग्रभ इति पाठः। साम० १५००। २. अहम् (वत्स ऋषिः) पितुः कण्वस्य सकाशाद्—इति वि०। भरतस्वामिनोऽपि तदेवाभिप्रेतम्। पितुः पालकस्य ऋतस्य सत्यस्यापि तस्येन्द्रस्य मेधाम् अनुग्रहात्मिकां बुद्धिम्—इति सा०।