Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1519

1875 Mantra
Devata- अग्निः पवमानः Rishi- शतं वैखानसाः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ग्नि꣢꣫रृषिः꣣ प꣡व꣢मानः꣣ पा꣡ञ्च꣢जन्यः पुरोहितः । त꣡मी꣢महे महाग꣣य꣢म् ॥१५१९॥

अ꣣ग्निः꣢ । ऋ꣡षिः꣢꣯ । प꣡व꣢꣯मानः । पा꣡ञ्च꣢꣯जन्यः । पा꣡ञ्च꣢꣯ । ज꣣न्यः । पुरो꣡हि꣢तः । पु꣣रः꣢ । हि꣣तः । त꣢म् । ई꣣महे । महागय꣢म् । म꣣हा । गय꣢म् ॥१५१९॥

Mantra without Swara
अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम् ॥

अग्निः । ऋषिः । पवमानः । पाञ्चजन्यः । पाञ्च । जन्यः । पुरोहितः । पुरः । हितः । तम् । ईमहे । महागयम् । महा । गयम् ॥१५१९॥

Samveda - Mantra Number : 1519
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निः) विद्वान् योगिराट् (ऋषिः) परमात्मद्रष्टा, (पवमानः) स्वस्य परेषां च जीवनं पवित्रीकुर्वाणः (पाञ्चजन्यः) पञ्चजनेभ्यः प्राणापानव्यानोदानसमानरूपेभ्यः पञ्चप्राणेभ्यो हितकरः, (पुरोहितः) योगप्रशिक्षणप्रदानाय सम्मुखं स्थापितश्च भवति। (महागयम्) महाप्राणम्। [प्राणा वै गयाः। श० १४।८।१५।७।] (तम्) योगिराजम् वयम् (ईमहे) योगसिद्धिं याचामहे। [ईमहे इति याच्ञाकर्मा। निघं० ३।१९] ॥२॥
Essence
सिद्धयोगिनां सान्निध्ये योगाभ्यासेन योगसाधने तत्पराणां शिष्याणां योगसाधना सफला जायते ॥२॥
Subject
अथ योगप्रशिक्षकः कीदृशो भवेदित्युच्यते।