Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1518

1875 Mantra
Devata- अग्निः पवमानः Rishi- शतं वैखानसाः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢ग्न꣣ आ꣡यू꣢ꣳषि पवस꣣ आसुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥१५१८॥

अ꣡ग्ने꣢꣯ । आ꣡यू꣢꣯ꣳषि । प꣣वसे । आ꣢ । सु꣣व । ऊ꣡र्ज꣢꣯म् । इ꣡ष꣢꣯म् । च꣣ । नः । आरे꣢ । बाध꣣स्व । दु꣣च्छु꣡ना꣢म् ॥१५१८॥

Mantra without Swara
अग्न आयूꣳषि पवस आसुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥

अग्ने । आयूꣳषि । पवसे । आ । सुव । ऊर्जम् । इषम् । च । नः । आरे । बाधस्व । दुच्छुनाम् ॥१५१८॥

Samveda - Mantra Number : 1518
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) विद्वन् योगिराट्। त्वम् (आयूंषि) योगसाधकानां जीवनानि (पवसे) पुनासि, त्वम् (नः) अस्मभ्यम् (ऊर्जम्) प्राणबलम् (इषं च) इच्छासिद्धिं च (आसुव) प्रदेहि। (दुच्छुनाम्) योगमार्गे विघ्नभूतां दुश्चरित्रताम् (आरे) दूरे (बाधस्व) प्रक्षिप ॥१॥२
Essence
सिद्धानां योगिनां निर्देशने योगाभ्यासेन जिज्ञासूनां जीवनं निष्कलङ्कं जायते, तैः प्राणसिद्धय इच्छासिद्धयश्च सद्यः प्राप्यन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ६२७ क्रमाङ्के परमात्मानं विद्वांसं राजानं च, उत्तरार्चिके च १४६४ क्रमाङ्के आचार्यं सम्बोधिता। अत्र योगिराडुच्यते।