Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1517

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- बृहती Swara- मध्यमः
Mantra with Swara
प्र꣡ दैवो꣢꣯दासो अ꣣ग्नि꣢र्देव इन्द्रो न मज्मना । अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥१५१७॥

प्र꣢ । दै꣡वो꣢꣯दासः । दै꣡वः꣢꣯ । दा꣣सः । अग्निः꣢ । दे꣣वः꣢ । इ꣡न्द्रः꣢꣯ । न । म꣣ज्म꣡ना꣢ । अ꣡नु꣢꣯ । मा꣣त꣡र꣢म् । पृ꣣थिवी꣢म् । वि । वा꣣वृते । तस्थौ꣣ । ना꣡क꣢꣯स्य । श꣡र्म꣢꣯णि ॥१५१७॥

Mantra without Swara
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना । अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥

प्र । दैवोदासः । दैवः । दासः । अग्निः । देवः । इन्द्रः । न । मज्मना । अनु । मातरम् । पृथिवीम् । वि । वावृते । तस्थौ । नाकस्य । शर्मणि ॥१५१७॥

Samveda - Mantra Number : 1517
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(दैवोदासः) दासति ददातीति दासः। दिवः आनन्दस्य दासः दाता दिवोदासः, स एव दैवोदासः। [दासतिः ददातिकर्मा। निघं० ३।२०। दीव्यतिरत्र मोदार्थः स्वार्थिकस्तद्धितप्रत्ययः।] (देवः) प्रकाशकः (अग्निः) अग्रनायकः जगदीश्वरो नृपतिर्वा (इन्द्रः न) सूर्यः इव (मज्मना) बलेन (मातरं पृथिवीम्) मातृवत् पालयित्रीं भूमिम् (अनु वि वावृते) अनुकूलतया पालयति, किञ्च (नाकस्य) सुखस्य (शर्मणि) रक्षणे (तस्थौ) तिष्ठति ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
यथा जगदीश्वरः प्रजाभ्यो योगक्षेमं प्रयच्छति भूमिं च पालयति, तथैव नृपतिरपि कुर्यात् ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके ५१ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र परमात्मनृपत्योरुभयोर्विषय उच्यते।