Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1516

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- बृहती Swara- मध्यमः
Mantra with Swara
य꣢स्मा꣣द्रे꣡ज꣢न्त कृ꣣ष्ट꣡य꣢श्च꣣र्कृ꣡त्या꣢नि कृण्व꣣तः꣢ । स꣣हस्रसां꣢ मे꣣ध꣡सा꣢ताविव꣣ त्म꣢ना꣣ग्निं꣢ धी꣣भि꣡र्न꣢मस्यत ॥१५१६॥

य꣡स्मा꣢꣯त् । रे꣡ज꣢꣯न्त । कृ꣣ष्ट꣡यः꣢ । च꣣र्कृ꣡त्या꣢नि । कृ꣣ण्वतः꣢ । स꣣हस्रसा꣢म् । स꣣हस्र । सा꣢म् । मे꣣ध꣡सा꣢तौ । मे꣣ध꣢ । सा꣣तौ । इव । त्म꣡ना꣢꣯ । अ꣣ग्नि꣢म् । धी꣣भिः꣢ । न꣣मस्यत ॥१५१६॥

Mantra without Swara
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः । सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत ॥

यस्मात् । रेजन्त । कृष्टयः । चर्कृत्यानि । कृण्वतः । सहस्रसाम् । सहस्र । साम् । मेधसातौ । मेध । सातौ । इव । त्मना । अग्निम् । धीभिः । नमस्यत ॥१५१६॥

Samveda - Mantra Number : 1516
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(चर्कृत्यानि) भृशं कर्तुं योग्यानि कर्माणि [करोतेर्यङ्लुगन्तात् क्तः, ततोऽर्हार्थे यत्।] (कृण्वतः) कुर्वतः (यस्मात्) जगदीश्वरात् नृपतेर्वा (कृष्टयः) दुष्टा जनाः (रेजन्त) अरेजन्त, भयात् कम्पन्ते। [भ्यसते रेजते इति भयवेपनयोः। निरु० ३।२१। लडर्थे लुङ्, अडागमाभावश्छान्दसः।] (सहस्रसाम्) सहस्रगुणानां सहस्रवस्तूनां वा दातारम् (अग्निम्) अग्रनायकं जगदीश्वरं नृपतिं वा, यूयम् (त्मना) आत्मना (धीभिः) बुद्धिभिः कर्मभिश्च (सपर्यत) परिचरत, (मेधसातौ इव) यथा यज्ञे (अग्निम्) यज्ञाग्निम् याज्ञिकाः जनाः (धीभिः) हविष्प्रदानादिभिः कर्मभिः सपर्यन्ति तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
यथा न्यायकारिणः परमेश्वरात् तथैव न्यायकारिणो नृपतेर्दण्डभयाद् दुष्कर्माणः कम्पन्ताम्। यथा सज्जनेभ्यः परमेश्वरः सहस्रं गुणान् बलानि वा ददाति तथा राष्ट्रभक्तेभ्यो राजा सहस्रशो लाभान् प्रयच्छेत्। प्रजाजना अपि परमेशभक्ताः परमेशमिव, याज्ञिकाश्च यज्ञाग्निमिव स्वकीयं राजानं सत्कुर्युः ॥२॥
Subject
अथ पुनरपि परमात्मनृपत्योर्विषयमाह।