Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1514

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
त꣡ꣳ होता꣢꣯रमध्व꣣र꣢स्य꣣ प्र꣡चे꣢तसं꣣ व꣡ह्निं꣢ दे꣣वा꣡ अ꣢कृण्वत । द꣡धा꣢ति꣣ र꣡त्नं꣢ विध꣣ते꣢ सु꣣वी꣡र्य꣢म꣣ग्नि꣡र्जना꣢꣯य दा꣣शु꣡षे꣢ ॥१५१४॥

त꣢म् । हो꣡ता꣢꣯रम् । अ꣣ध्वर꣡स्य꣢ । प्र꣡चे꣢꣯तसम् । प्र । चे꣣तसम् । व꣡ह्नि꣢꣯म् । दे꣣वाः꣢ । अ꣣कृण्वत । द꣡धा꣢꣯ति । र꣡त्न꣢꣯म् । वि꣣धते꣢ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । अ꣣ग्निः꣢ । ज꣡ना꣢꣯य । दा꣣शु꣡षे꣢ ॥१५१४॥

Mantra without Swara
तꣳ होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत । दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥

तम् । होतारम् । अध्वरस्य । प्रचेतसम् । प्र । चेतसम् । वह्निम् । देवाः । अकृण्वत । दधाति । रत्नम् । विधते । सुवीर्यम् । सु । वीर्यम् । अग्निः । जनाय । दाशुषे ॥१५१४॥

Samveda - Mantra Number : 1514
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(प्रचेतसम्) प्रचेतयति जागरयति यस्तम् (वह्निम्) अग्निम् (देवाः) विद्वांसः अग्निहोत्रिणः (अध्वरस्य) हिंसारहितस्य यज्ञस्य (होतारम्) निष्पादनसाधनम् (अकृण्वत) कुर्वन्ति। असौ (अग्निः) यज्ञाग्निः (विधते) परमेश्वरं परिचरते। [विधतिः परिचरणकर्मा। निघं० ३।५।] (दाशुषे जनाय) हवींषि दत्तवते अग्निहोत्रिणे (सुवीर्यम्) सुवीर्योपेतम् (रत्नम्) आरोग्यादिकं रमणीयं धनम् (दधाति) प्रयच्छति ॥२॥२
Essence
यज्ञाग्नौ रोगहराणां सुगन्धिद्रव्याणां याऽऽहुतिः प्रदीयते साऽग्निज्वालाभिर्विच्छिन्ना सूक्ष्मीकृता च वायुमाध्यमेनेतस्ततः प्रसृता सती श्वासद्वारा प्राणिनां फुफ्फुसान्तर्गता तत्र रक्तवाहिनीषु सूक्ष्मासु केशिकासु रक्तेन सम्बद्धा तत्रौषधं समावेशयति रक्तस्य मालिन्यं चापहृत्य श्वासद्वारेण बहिर्निस्सारयति। एवं प्राणिनां स्वास्थ्यं जनयति। अग्निज्वालानां दीप्तिमूर्ध्वगामित्वं दोषदाहकत्वमित्यादिगुणानवलोक्य यज्ञकर्ता स्वात्मन्यप्येतान् गुणान् धारयितुं यतते। तदेवमग्निहोत्रेणान्तरिका बाह्याश्चोभयेऽपि लाभाः सम्पद्यन्ते ॥२॥
Subject
अथ पुनरप्यग्निहोत्रविषयो वर्ण्यते।