Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1513

1875 Mantra
Devata- अग्निः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
दे꣣वो꣡ वो꣢ द्रविणो꣣दाः꣢ पू꣣र्णां꣡ वि꣢वष्ट्वा꣣सि꣡च꣢म् । उ꣡द्वा꣢ सि꣣ञ्च꣢ध्व꣣मु꣡प꣢ वा पृणध्व꣣मा꣡दिद्वो꣢꣯ दे꣣व꣡ ओह꣢ते ॥१५१३॥

दे꣣वः꣢ । वः꣣ । द्रविणोदाः꣢ । द्र꣣विणः । दाः꣢ । पू꣣र्णा꣢म् । वि꣣वष्टु । आसि꣡च꣢म् । आ꣣ । सि꣡च꣢꣯म् । उत् । वा꣣ । सिञ्च꣡ध्व꣢म् । उ꣡प꣢꣯ । वा । पृणध्वम् । आ꣢त् । इत् । वः꣣ । देवः꣢ । ओ꣣हते ॥१५१३॥

Mantra without Swara
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥

देवः । वः । द्रविणोदाः । द्रविणः । दाः । पूर्णाम् । विवष्टु । आसिचम् । आ । सिचम् । उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥१५१३॥

Samveda - Mantra Number : 1513
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानवाः ! (द्रविणोदाः) द्रविणः आरोग्यधनं बलं वा तस्य दाता, (देवः) प्रकाशपूर्णः प्रकाशकश्च यज्ञाग्निः (वः) युष्माकम् (पूर्णाम्) केसरकस्तूर्यादिमिश्रितेन घृतेन परिपूर्णाम् (आसिचम्) आसेक्त्रीं स्रुचम् (विवष्टु) गृह्णीयात्। यूयम् (उत्सिञ्चध्वं वा) सुगन्धिद्रव्यमिश्रित- घृताहुतिभिः तं यज्ञाग्निं स्नपयत च, (उपपृणध्वं च) रिक्तीभूतां स्रुचं पुनर्घृतैः पूरयत च। [वा शब्दः समुच्चये। ‘अथापि समुच्चये भवति (१।५)’ इति निरुक्तप्रामाण्यात्।] (आत् इत्) तदनन्तरमेव (देवः) दीप्तो यज्ञाग्निः (वः) युष्मान् अग्निहोत्रिणः (ओहते) यज्ञलाभान् वहति प्रापयति। [वह प्रापणे, धातोश्छान्दसं सम्प्रसारणम्] ॥१॥२
Essence
पुनः पुनराहुतिप्रदानेन यज्ञाग्निरारोग्यदीप्त्यादिभिर्लाभैर्याज्ञिकानुप- कुर्वन् परमेश्वरोपासनायामपि सहायको भवति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५५ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्राग्निहोत्रविषय उच्यते।