Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1512

1875 Mantra
Devata- इन्द्रः Rishi- प्रियमेध आङ्गिरसः Chhand- निचृदुष्णिक् Swara- ऋषभः
Mantra with Swara
न꣣दं꣢ व꣣ ओ꣡द꣢तीनां न꣣दं꣡ योयु꣢꣯वतीनाम् । प꣡तिं꣢ वो꣣ अ꣡घ्न्या꣢नां धेनू꣣ना꣡मि꣢षुध्यसि ॥१५१२॥

न꣣द꣢म् । वः꣣ । ओ꣡द꣢꣯तीनाम् । न꣣द꣢म् । यो꣡यु꣢꣯वतीनाम् । प꣡ति꣢꣯म् । वः꣣ । अ꣡घ्न्या꣢꣯नाम् । अ । घ्न्या꣣नाम् । घेनूना꣢म् । इ꣣षुध्यसि ॥१५१२॥

Mantra without Swara
नदं व ओदतीनां नदं योयुवतीनाम् । पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥

नदम् । वः । ओदतीनाम् । नदम् । योयुवतीनाम् । पतिम् । वः । अघ्न्यानाम् । अ । घ्न्यानाम् । घेनूनाम् । इषुध्यसि ॥१५१२॥

Samveda - Mantra Number : 1512
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः ! (वः) यूयम् (ओदतीनाम्) प्रकाशेन क्लेदकानाम् उषसाम्। [उन्दन्तीति ओदत्यः तासाम्। उन्दी क्लेदने। ओदती इत्युषर्नाम। निघं० १।८।] (नदम्) भासकम्। [नद भासार्थः, चुरादिः।] (योयुवतीनाम्) अतिशयेन स्वात्मानमितराभिः मिश्रयन्तीनां नदीनाम्। [यौतेर्यङ्लुगन्तात् शतरि ङित्वाद् गुणाभावे उवङादेशे स्त्रियां षष्ठीबहुवचने रूपम्।] (नदम्) नादयितारम्। [णद अव्यक्ते शब्दे, भ्वादिः] अपि च (वः) युष्माकम् (अघ्न्यानाम्) अहन्तव्यानाम् (धेनूनाम्) गवाम् (पतिम्) पातारम् इन्द्रं जगदीश्वरं, स्तुत इति शेषः। अथ प्रत्यक्षकृतमाह—हे (इन्द्र) जगदीश्वर ! (त्वम्), अधार्मिकेषु शत्रुषु (इषुध्यसि) शरं संदधासि, तान् दण्डयसीत्यर्थः। [इषुध शरधारणे, कण्ड्वादिः] ॥१॥ अत्र नदमित्यस्य द्विरुक्तौ यमकालङ्कारः। तीनामित्यस्य द्विरुक्तौ छेकानुप्रासः। नकारावृत्तौ च वृत्त्यनुप्रासः ॥१॥
Essence
परमेश्वर एवोषसां भासकः, सूर्यस्य प्रदीपको, विद्युतां द्योतयिता, पवनस्य प्रचालको, नदीनां कलकलनिनादको, गोषु पयसामुत्पादको, दुष्टानां दलयिता चास्ति ॥१॥ अस्मिन् खण्डे जगदीश्वरस्य जीवात्मनश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनरपि परमात्मनो महिमा प्रोच्यते।