Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1511

1875 Mantra
Devata- इन्द्रः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
न꣢ ह्या꣣꣬ꣳ३꣱ग꣢ पु꣣रा꣢ च꣣ न꣢ ज꣣ज्ञे꣢ वी꣣र꣡त꣢र꣣स्त्व꣢त् । न꣡ की꣢ रा꣣या꣢꣫ नैवथा꣣ न꣢ भ꣣न्द꣡ना꣢ ॥१५११॥

न । हि । अ꣣ङ्ग꣢ । पु꣣रा꣢ । च꣣ । न꣢ । ज꣣ज्ञे꣢ । वी꣣र꣡त꣢रः । त्वत् । न । किः꣣ । राया꣢ । न । ए꣣व꣡था꣢ । न । भ꣣न्द꣡ना꣢ ॥१५११॥

Mantra without Swara
न ह्याꣳ३ग पुरा च न जज्ञे वीरतरस्त्वत् । न की राया नैवथा न भन्दना ॥

न । हि । अङ्ग । पुरा । च । न । जज्ञे । वीरतरः । त्वत् । न । किः । राया । न । एवथा । न । भन्दना ॥१५११॥

Samveda - Mantra Number : 1511
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अङ्ग) प्रिय परमेश ! (पुरा च न) प्राक्-कालेऽपि (त्वत्) त्वदपेक्षया (वीरतरः) अधिको वीरः कश्चन (न जज्ञे) नैव उत्पन्नः, साम्प्रतं नास्ति, भाविनि काले च न भविष्यतीति किमु वक्तव्यम् (न किः) नैव (राया) धनेन, (न एवथा२) न एवेन गमनेन, कर्मणा, अवनेन वा, (न) नापि च (भन्दना३) भन्दनया कल्याणेन त्वदधिकः (कश्चिद्) जज्ञे वर्तते, जनिष्यते वा। [एवैः अयनैः अवनैर्वा इति निरुक्तम् २।२५। इण् गतौ धातोः ‘इण्शीभ्यां वन्।’ उ० १।१५२ इति वन् प्रत्ययः। ततस्तृतीयार्थे छान्दसः था प्रत्ययः। भन्दना, भदि कल्याणे सुखे च, कल्याणेन। भन्दनया इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१३९ इति तृतीयाया आकारादेशः] ॥३॥
Essence
न खलु जगदीश्वरादधिकः कश्चिद् वीरो धनवान् कर्मण्यो रक्षकः कल्याणकरश्च भूतो वर्तते वर्तिष्यते वा। अत आत्मनः सुखाय शान्त्यै च स एव सर्वैर्वन्दनीयः ॥३॥
Subject
अथेन्द्रस्य परमात्मनो महिमानमाह।