Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1510

1875 Mantra
Devata- इन्द्रः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
उ꣢पो꣣ ह꣡री꣢णां꣣ प꣢ति꣣ꣳ रा꣡धः꣢ पृ꣣ञ्च꣡न्त꣢मब्रवम् । नू꣣न꣡ꣳ श्रु꣢धि स्तुव꣣तो꣢ अ꣣श्व्य꣡स्य꣢ ॥१५१०॥

उ꣡प꣢꣯ । ऊ꣣ । ह꣡री꣢꣯णाम् । प꣡ति꣢꣯म् । रा꣡धः꣢꣯ । पृ꣣ञ्च꣢न्त꣢म् । अ꣣ब्रवम् । नून꣢म् । श्रु꣣धि । स्तुवतः꣢ । अ꣣श्व्य꣡स्य꣢ ॥१५१०॥

Mantra without Swara
उपो हरीणां पतिꣳ राधः पृञ्चन्तमब्रवम् । नूनꣳ श्रुधि स्तुवतो अश्व्यस्य ॥

उप । ऊ । हरीणाम् । पतिम् । राधः । पृञ्चन्तम् । अब्रवम् । नूनम् । श्रुधि । स्तुवतः । अश्व्यस्य ॥१५१०॥

Samveda - Mantra Number : 1510
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(हरीणाम्) आकर्षणगुणेन परस्परमाबद्धानां सूर्यभूमण्डलमङ्गलबुध- चन्द्रनक्षत्रादीनाम्, यद्वा ज्ञानकर्माहरणशीलानां ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च (पतिम्) स्वामिनम्, (राधः) ऐश्वर्यम् (पृञ्चन्तम्) प्रयच्छन्तम् इन्द्रं परमात्मानम्। [पृची सम्पर्चने, अदादिः।] (उप) उपेत्य अहम् (अब्रवम् उ) स्तुतिवचनं ब्रवीमि। हे इन्द्र परमात्मन् ! (स्तुवतः) स्तुतिं कुर्वतः (अश्व्यस्य२) अश्वेषु इन्द्रियतुरङ्गमेषु साधुः अश्व्यः इन्द्रियाश्वानां सुमार्गे चालयिता तस्य उपासकस्य मम, तत्प्रार्थनावचनम् (नूनं) निश्चयेन (श्रुधि) शृणु, पूरयेत्यर्थः ॥२॥
Essence
परस्परमाकर्षणबलेन निराधारं गगने स्थितानां लोकलोकान्तराणां देहे च यथास्थानं धृतानामङ्गप्रत्यङ्गानां मनोबुद्धिप्राणेन्द्रियाणां च यो व्यवस्थापयिता वर्तते तं परमात्मानं सर्वे जना जितेन्द्रिया भूत्वा भूयोभूयः संस्तुवन्तु ॥२॥
Subject
अथेन्द्रं जगदीश्वरं स्तौति।