Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1508

1875 Mantra
Devata- पवमानः सोमः Rishi- त्र्यरुणस्त्रैवृष्णः, त्रसदस्युः पौरुकुत्सः Chhand- ऊर्ध्वा बृहती Swara- मध्यमः
Mantra with Swara
अ꣡जी꣢जनो अमृत꣣ म꣡र्त्या꣢य꣣ क꣢मृ꣣त꣢स्य꣣ ध꣡र्म꣢न्न꣣मृ꣡त꣢स्य꣣ चा꣡रु꣢णः । स꣡दा꣢सरो꣣ वा꣢ज꣣म꣢च्छा꣣ स꣡नि꣢ष्यदत् ॥१५०८॥

अ꣡जी꣢꣯जनः । अ꣣मृत । अ । मृत । म꣡र्त्या꣢꣯य । कम् । ऋ꣣त꣡स्य꣢ । ध꣡र्म꣢꣯न् । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । चा꣡रु꣢꣯णः । स꣡दा꣢꣯ । अ꣣सरः । वा꣡ज꣢꣯म् । अ꣡च्छ꣢꣯ । स꣡नि꣢꣯ष्यदत् ॥१५०८॥

Mantra without Swara
अजीजनो अमृत मर्त्याय कमृतस्य धर्मन्नमृतस्य चारुणः । सदासरो वाजमच्छा सनिष्यदत् ॥

अजीजनः । अमृत । अ । मृत । मर्त्याय । कम् । ऋतस्य । धर्मन् । अमृतस्य । अ । मृतस्य । चारुणः । सदा । असरः । वाजम् । अच्छ । सनिष्यदत् ॥१५०८॥

Samveda - Mantra Number : 1508
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अमृत) अमर सोम जगदीश्वर ! त्वम् (मर्त्याय) मानवाय (ऋतस्य धर्मन्) उदकस्य सत्यनियमस्य वा धारके आकाशे। [ऋतमिति उदकनाम सत्यनाम च। निघं० १।१२, ३।१०।] (चारुणः) कल्याणकरस्य (अमृतस्य) अमृतमयस्य पर्जन्यस्य आदित्यस्य वा (कम्) सुखकरं जलं प्रकाशं वा (अजीजनः) जनितवानसि। अपि च (वाजम् अच्छ) बलं प्रापयितुम् (सनिष्यदत्) प्रस्यन्दमानः त्वम् (सदा) सदैव (असरः) धार्मिकान् उपासकान् प्राप्नोषि। [सनिष्यदत्, स्यन्दू प्रस्रवणे धातोः‘दाधर्तिदर्धर्ति०।’ अ० ७।४।६५ इत्यनेन यङ्लुकि अभ्यासस्य निक् धातुसकारस्य च षत्वं निपात्यते] ॥३॥
Essence
जगदीश्वरस्यास्मान् प्रति कियानुपकारो यत् सोऽस्मभ्यं, गगने वृष्टिप्रदातारं पर्जन्यं तेजसां निधिं सूर्यं च स्थापयति स एव च सर्वा विपदो विघ्नांश्च प्रतिरोद्धुमस्मभ्यं मनोबलं प्रयच्छति ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।