Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1507

1875 Mantra
Devata- पवमानः सोमः Rishi- त्र्यरुणस्त्रैवृष्णः, त्रसदस्युः पौरुकुत्सः Chhand- ऊर्ध्वा बृहती Swara- मध्यमः
Mantra with Swara
अ꣣꣬भ्य꣢꣯भि꣣ हि꣡ श्रव꣢꣯सा त꣣त꣢र्दि꣣थो꣢त्सं꣣ न꣡ कं चि꣢꣯ज्जन꣣पा꣢न꣣म꣡क्षि꣢तम् । श꣡र्या꣢भि꣣र्न꣡ भर꣢꣯माणो꣣ ग꣡भ꣢स्त्योः ॥१५०७॥

अ꣣भ्य꣢꣯भि । अ꣣भि꣢ । अ꣣भि । हि꣢ । श्र꣡व꣢꣯सा । त꣣त꣡र्दि꣢थ । उ꣡त्स꣢꣯म् । उत् । स꣣म् । न꣢ । कम् । चि꣣त् । जनपा꣡न꣢म् । ज꣣न । पा꣡न꣢꣯म् । अ꣡क्षि꣢꣯तम् । अ । क्षि꣣तम् । श꣡र्या꣢꣯भिः । न । भ꣡र꣢꣯माणः । ग꣡भ꣢꣯स्त्योः ॥१५०७॥

Mantra without Swara
अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् । शर्याभिर्न भरमाणो गभस्त्योः ॥

अभ्यभि । अभि । अभि । हि । श्रवसा । ततर्दिथ । उत्सम् । उत् । सम् । न । कम् । चित् । जनपानम् । जन । पानम् । अक्षितम् । अ । क्षितम् । शर्याभिः । न । भरमाणः । गभस्त्योः ॥१५०७॥

Samveda - Mantra Number : 1507
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम जगत्पितः परमात्मन् ! (श्रवसा) यशसा प्रख्यातः त्वम्, (कंचित् अक्षितम् उत्सं न) कंचित् अक्षयं जलस्रोतः इव (अक्षितं जनपानम्) जनैः पातव्यम् अक्षयम् आनन्दरसम् (अभ्यभि हि) उपासकान् प्रति (ततर्दिथ) प्रवाहयसि। किञ्च (गभस्त्योः) बाह्वोः। [गभस्ती इति बाह्वोर्नाम। निघं० २।४।] (शर्याभिः२ न) अङ्गुलीभिरिव। [शर्या इति अङ्गुलिनाम। निघं० २।५।] (गभस्त्योः) द्यावापृथिव्योः (शर्याभिः) रश्मिभिः (भरमाणः) लोकलोकान्तराणि धारयन् भवसि ॥२॥ अत्र श्लिष्टोपमालङ्कारः ॥२॥
Essence
यथा स्रोतसः प्रवहन् जलप्रवाहो भूभागमाप्लावयति तथैव परमात्मनः प्रवहन्नानन्दरस उपासकानामन्तःकरणमाप्लावयति। यथा च कश्चिद्बाह्वोरङ्गुलीभिः कमपि पदार्थं धारयति तथैव जगदीश्वरो द्यावापृथिव्योर्व्याप्ताभिः सूर्यरश्मिभिर्विभिन्नान् लोकान् धारितवानस्ति ॥२॥
Subject
अथ जगत्पतेरुपकारान् वर्णयति।