Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1506

1875 Mantra
Devata- पवमानः सोमः Rishi- त्र्यरुणस्त्रैवृष्णः, त्रसदस्युः पौरुकुत्सः Chhand- ऊर्ध्वा बृहती Swara- मध्यमः
Mantra with Swara
त्वे꣡ सो꣢म प्रथ꣣मा꣢ वृ꣣क्त꣡ब꣢र्हिषो म꣣हे꣡ वाजा꣢꣯य श्र꣡व꣢से꣣ धि꣡यं꣢ दधुः । स꣡ त्वं नो꣢꣯ वीर वी꣣꣬र्या꣢꣯य चोदय ॥१५०६॥

त्वे꣡इति꣢ । सो꣣म । प्रथमाः꣢ । वृ꣣क्त꣢ब꣢र्हिषः । वृ꣣क्त꣢ । ब꣣र्हिषः । महे꣢ । वा꣡जा꣢꣯य । श्र꣡व꣢꣯से । धि꣡य꣢꣯म् । द꣣धुः । सः꣢ । त्वम् । नः꣣ । वीर । वीर्या꣢य । चो꣣दय ॥१५०६॥

Mantra without Swara
त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः । स त्वं नो वीर वीर्याय चोदय ॥

त्वेइति । सोम । प्रथमाः । वृक्तबर्हिषः । वृक्त । बर्हिषः । महे । वाजाय । श्रवसे । धियम् । दधुः । सः । त्वम् । नः । वीर । वीर्याय । चोदय ॥१५०६॥

Samveda - Mantra Number : 1506
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) जगदुत्पादक शुभगुणकर्मस्वभावप्रेरक सर्वाह्लादक परमात्मन् ! (प्रथमाः) श्रेष्ठाः (वृक्तबर्हिषः) उपासनायज्ञे छिन्नकुशाः आस्तीर्णदर्भासना यजमानाः (महे वाजाय) महते बलाय (श्रवसे) यशसे च (त्वे) त्वयि (धियं दधुः) ध्यानं सम्पादयन्ति। (सः त्वम्) असौ सर्वैः श्रेष्ठजनैर्ध्यातः त्वम् (नः) ध्यानिनः अस्मान् (वीर्याय) वीरकर्मणे (चोदय) प्रेरय ॥१॥
Essence
परमात्मनो ध्यातारो बलिनो भूत्वा शुभानि लोकहितावहानि कर्माणि कुर्वन्तो यशस्विनो जायन्ते ॥१॥
Subject
तत्रादौ सोमनाम्ना जगत्पतिः प्रार्थ्यते।