Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1505

1875 Mantra
Devata- विश्वे देवाः Rishi- अग्निस्तापसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
त्वं꣡ नो꣢ अग्ने अ꣣ग्नि꣢भि꣣र्ब्र꣡ह्म꣢ य꣣ज्ञं꣡ च꣢ वर्धय । त्वं꣡ नो꣢ दे꣣व꣡ता꣢तये रा꣣यो꣡ दाना꣢꣯य चोदय ॥१५०५॥

त्व꣢म् । नः꣣ । अग्ने । अग्नि꣡भिः꣢ । ब्र꣡ह्म꣢꣯ । य꣣ज्ञ꣢म् । च꣣ । वर्धय । त्व꣢म् । नः꣣ । देव꣡ता꣢तये । रा꣣यः꣢ । दा꣡ना꣢꣯य । चो꣣दय ॥१५०५॥

Mantra without Swara
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय । त्वं नो देवतातये रायो दानाय चोदय ॥

त्वम् । नः । अग्ने । अग्निभिः । ब्रह्म । यज्ञम् । च । वर्धय । त्वम् । नः । देवतातये । रायः । दानाय । चोदय ॥१५०५॥

Samveda - Mantra Number : 1505
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनायक ज्योतिर्मय ज्योतिष्प्रद सर्वान्तर्यामिन् सर्वज्ञ जगदीश्वर ! (त्वम्) सर्वशक्तिमान् भवान् (अग्निभिः) त्वदीयैः ज्योतिर्भिः (नः) अस्माकम् (ब्रह्म) जीवात्मानम् (यज्ञं च) अस्माभिः क्रियमाणम् उपासनामानवसेवाद्यात्मकं यज्ञं च (वर्धय) समेधय। त्वम् (देवतातये) राष्ट्रोत्थानरूपस्य पूर्त्यै [देवताता इति यज्ञनामसु पठितम्। निघं० ३।१७। देवशब्दात् ‘सर्वदेवात्तातिल्’ अ० ४।४।१४२ इति तातिल् प्रत्ययः लित्वात् प्रत्ययात् पूर्वमुदात्तम्।] (नः) अस्मान् (रायः) विद्याहिरण्यधान्यादिकस्य धनस्य (दानाय) परेभ्यस्त्यागाय (चोदय) प्रेरय ॥३॥
Essence
परमात्मनस्तेजसा तेजस्विनो भूत्वा वयं परमात्मवत् परोपकारयज्ञे संलग्ना भवेम, विद्याधनधान्यादीनां दानं कुर्वन्तश्च समाजमुन्नयेम ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।