Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1504

1875 Mantra
Devata- विश्वे देवाः Rishi- अग्निस्तापसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्र꣡ स विश्वे꣢꣯भिर꣣ग्नि꣡भि꣢र꣣ग्निः꣡ स यस्य꣢꣯ वा꣣जि꣡नः꣢ । त꣡न꣢ये तो꣣के꣢ अ꣣स्म꣢꣫दा स꣣म्य꣢꣫ङ्वाजैः꣢ प꣡री꣢वृतः ॥१५०४

प्र । सः । वि꣡श्वे꣢꣯भिः । अ꣣ग्नि꣡भिः꣢ । अ꣣ग्निः꣢ । सः । य꣡स्य꣢꣯ । वा꣣जि꣡नः꣢ । त꣡नये꣢꣯ । तो꣣के꣢ । अ꣣स्म꣢त् । आ । स꣣म्य꣢ङ् । वा꣡जैः꣢꣯ । प꣡री꣢꣯वृतः । प꣡रि꣢꣯ । वृ꣣तः ॥१५०४॥

Mantra without Swara
प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः । तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः ॥१५०४

प्र । सः । विश्वेभिः । अग्निभिः । अग्निः । सः । यस्य । वाजिनः । तनये । तोके । अस्मत् । आ । सम्यङ् । वाजैः । परीवृतः । परि । वृतः ॥१५०४॥

Samveda - Mantra Number : 1504
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निः) अग्निनाम्ना ख्यातो जगदीश्वरः (सः) असौ वर्तते (यस्य) यद्रचिताः (वाजिनः) बलवन्तो मनोबुद्धिप्राणादयः सूर्यचन्द्रादयश्च विद्यन्ते। (सः) असौ (विश्वेभिः अग्निभिः) स्वरचितैः समस्तैः वह्निविद्युत्सूर्यादिभिः अग्निभिः कारणैः (प्र) प्रशंसनीयोऽस्ति। (वाजैः) बलैः (परीवृतः) पर्यावृतः सः (अस्मत्) अस्मासु। [‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्लुक्।] (तोके तनये) अस्माकं पुत्रपौत्रादिषु च (सम्यङ्) समीचीनं यथा स्यात् तथा (आ) आगच्छेत् ॥२॥
Essence
न केवलं वयं प्रत्युतास्माकं भाविसन्ततयोऽप्यध्यात्मपथपथिका भवेयुः ॥२॥
Subject
अथ पुनः स एव विषय उच्यते।